पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/१३१

एतत् पृष्ठम् परिष्कृतम् अस्ति

(१०७)


अन्वयः

 तत्र सः भार्गवप्रचण्डकोदण्डपरिश्रमः नृपः सद्यः ककुभः विजित्य अर्थिशतानि पूरयन् उवास । हि श्रियः फलं पात्रप्रतिपादनम् ।

व्याख्या:

 तत्र कल्याणपुरे सः प्रसिद्धो भार्गवस्य परशुरामस्य प्रचण्डो भयङ्करः कोरण्डो घनूः ‘धनुश्चापो धन्चशरासनकोदण्डकार्मुकम्' इत्यमरः । तस्य परिश्रम इव परिश्रमः संप्रहरकार्यं यस्य स नृप आहवमल्लदेवः सर्वास्समप्रा’ ककुभो दिशो विजित्य स्वायत्तीकृत्वाऽर्थि्शतानि याचकशतमनोरथान् पूरयन्सफलयन्नुवास । हि यस्मात्कारणाच्छ्रियो लक्ष्म्यास्सम्पदश्च फलं सार्थवयं पात्रेषु योग्यस्थानेषु प्रतिपादनं दानम् । अत्राऽर्थान्तरन्यासालङ्कारः ।।

भाषा

 परशुराम के भयंकर धनुष के संहार के समान संहार करने वाला वह प्रसिद्ध राजा आहवमल्लदेव, समग्र दिशाओ को जीतकर और संकडो अर्थिजनो को दान देकर कल्याणपुर में रहने लगा । क्योकि लक्ष्मी का सार्थक्य योग्य आर्थियो को दान देना ही है ।

जगत्पनर्घेषु समस्तवस्तुषु क्षितीश्वरः पादतलस्थितेष्वपि ।
अभूद्विना पुत्रमुखेन्दुदर्शनं प्रभातनीलोत्पलदीनलोचनः ॥२७॥

अन्वयः

 क्षितीश्वरः जगति अनर्घेषु समस्तवस्तुषु पातलस्थितेषु अपि पुत्रमुखेन्दु दर्शनं विना प्रभातनीलोत्पलदीनलोचनः अभूत् ।

व्याख्या:

 क्षितेः पूज्या ईश्वर प्रभुर्जगति लोके ‘त्रिष्वयो जगती लोको विष्टप भूय जगत्' इत्यमरः । अनर्घष्वमूल्येषु समस्तवस्तुषु सकलपदार्थेषु पादतलेप्ये समीप एव स्थिता विद्यमानास्तैष्वतिसुलभेषु सत्स्यवि पुत्रस्याऽऽत्मजस्य यन्मुखमान हते लोचने नेत्रे यस्य स अभूत । चन्द्रदर्शः