पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/१३५

एतत् पृष्ठम् परिष्कृतम् अस्ति

( १११ )

अन्वयः

 गेहिनी यथा निर्व्याजम् अलीकहासिना अङ्कपर्यङ्कगतेन सुतेन शोभते तथा प्रियप्रसादेन विलाससम्पदा भूषाविभवेन (वा) न शोभते ।

व्याख्या

 गेहिनी गृहिणी गृहधर्मरता स्त्री यथा निर्व्याज निष्कपट यथास्यात्तथाऽलीक हासिनाऽनृतहासिना कारणमन्तरैव प्रकृत्या हास कुर्वता ‘अलीक त्वप्रियेऽनृते’ इत्यमर । अङ्क उत्सङ्ग एव पर्यङ्क खट्वा ‘अङ्को रूपकभेदाऽङ्गचिन्हरेखाजिभूषणे। रूपकाशातिकोत्सङ्गस्थानेङ्क पापदु खपोरिति मेदिनी। ‘शयन मचपर्ङ्कपल्यङ्का खट्वया समा’ इत्यमर । तद्गतेन सुतेन पुत्रेण शोभते सौभाग्यमालम्बते तथा प्रियस्य पत्यु प्रसादेन प्रसन्नताप्रदर्शनेन विलासस्य भोगस्य सम्पदा विभवेन, भोग्यसुखसमृद्धिसामग्रया भूपापा भूषणस्य विभवेन वैशिष्ट्येन वा न शोभते ।

भाषा

 गृहिणी जिस प्रकार कपट रहित स्वाभाविक हास्य करने वाले गोद रूपी पलङग पर लेटे हुए पुत्र से शोमित होती है वैसे न तो पती की प्यारी होने से, न उपभोग योग्य सुख समृद्धि की वस्तुओं से, न गहना कपडा पहनने से शोभित होती है ।

वहन्ति हिंस्राः पशवः कमात्मनो गुणं वितर्क्यात्मजरक्षणश्रमम् ।
पदार्थसामर्थ्यमचिन्त्यमीदृशं यदत्र विश्राम्यति निर्भरं मनः॥३३॥

अन्वयः

 हिंस्राः पशवः आत्मनः कं गुण वितर्क्यं ‘आत्मजरक्षणश्रमं वहन्ति । ईदृशम् अचिन्त्यं पदार्थसामर्थ्यं यत् अत्र मनः निर्भरं विश्राम्यति ।

व्याख्या

 हिस्ना हिंसकः पशयो व्याघ्रादय आत्मनो स्वस्य क विशिष्ट गुणं प्रयोजनं वितर्क्य विमृश्याऽत्मजस्य पुत्रस्य रक्षणस्य भरणपोषणादभि पालनस्य श्रम स्वेद वहन्ति धारयन्ति । ईदृशमित्यभूतमचिन्त्यमवर्णनीयमनुभवैकगम्यं पदार्थसामर्थ्यं पुत्रपदार्थाक्यैकत्व यदत्र पुत्रे मनश्चित्तं चित्तन्तु चेतो हृदयं स्वान्तं हृन्मानसं मन' इत्यमर। निर्भरमत्यन्त विश्राम्यति सन्तोषसुख शान्तिञ्च लभते ।