पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/१३७

एतत् पृष्ठम् परिष्कृतम् अस्ति

( ११३ )

व्याख्या

 नृपो राजा प्रतापेन प्रभावेण ‘स प्रतापप्रभावश्च यत्तेजः कोशदण्डजम्’ इत्य मरः । शौर्यादिगुणैर्वीरतादिगुणैश्चाऽलङकृतः सम्भूषितोऽपि कृतार्थतां जन्म- साफल्य तावनोपैति प्राप्नोति यावत् वीष्णोर्भुजयोर्विक्रमेण पराक्रमेण लधोपा र्जिता कीर्तियशो येन तेन सुतेन पुत्रेण पुत्रिणा पुत्रवता धुरि प्रधान्यं नाऽऽरोहति न परिनिष्ठितो भवति ।

भाषा

 राज, प्रताप वीरता आदि गुणो से विभूषित होने पर भी ततब तक अपने जन्म की सफलता को प्राप्त नहीं करता जब तक भुजबल के पराक्रम से कीर्ति को कमाने वाले पुत्र से पुत्रवान् लोगो में अग्रणी नहीं होता ।

निशम्य देवस्य नितान्तदुःखिताकथामिति श्रोत्रपथभ्रमाथिनम्।
जगाद किञ्चिन्न नरेन्द्रसुन्दरी परं निशश्वास तरङ्गितालका ॥३६॥

अन्वयः

 इति श्रोत्रपथप्रमाथिनि देवस्य कथां निशम्य नितान्तदुःखिता नरेन्द्र सुन्दरी किञ्चित् न जगाद परं तरङ्गितालका (सती) निशश्वास ।

व्याख्या

 इतीत्यं श्रोत्रयोः कर्णयोः पन्था मार्गस्तस्य प्रमाथिनीं तां कर्णकुहरदु खदायिनीं देवस्य राज्ञः कथां वार्ता निशम्य श्रुत्वा नितान्तमत्यन्त दुखिता पीडिता नरेन्द्रनन्दिनी राजमहिषी किञ्चित्विमपि न जगाद नोवाच पर केवलं तरङ्गिता इतस्तत प्रक्षिप्ताः कुन्तला, केशा यस्या सा सतो निशश्वास दीर्घमुष्णञ्च श्वासं प्रवाहितवती । केशास्य स्थानच्युतिर्दीर्घनिश्वासश्च दुखचिन्हम् । परमदु खिताऽभूवित्यर्थ.

भाषा

 इस प्रकार राजा की कर्णपटु बातें सुनकर अत्यन्त दुखी रानी ने कोई उत्तर नहीं दिया । केवल बिखरे बालों वाली उस रानी ने जोर ने साँस भरा । अर्थात् अत्यन्त दुखी हुई ।