पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/१३९

एतत् पृष्ठम् परिष्कृतम् अस्ति

( ११५ )

इत्यमरः । मुखं स्वाननं कवोष्णः कोष्णः 'कोष्णं कवोष्णं मन्दोष्णं कदुष्णं त्रिषु सद्वति' इत्यमरः । चाऽसौ निस्वासस्तेन विधूसरो मलिनोऽधर अधरोष्ठो यस्मिन् तत् कि किमर्थं करोषि विदधासि । अहमभीष्टमीप्सितं यद्वस्तु पुत्रप्राप्तिरूपं सत्प्रतिबध्नन्ति प्रतिरूद्वन्ति तेषां कर्मणामिहजन्मनि पूर्वजन्मनि वा कृतानां दुष्कर्मणां निग्रहाय समूलमुन्मूलनाय कृत आग्रह अभिनिवेशो येन सा बद्धपरिकरोऽस्मि '।

भाषा

 अब दु ख दूर करो। अपने मुख को गरम श्वास से सूखे अधरोष्ठ वाला क्यों बनाती हो। में पुत्र रूपी अभीष्ट सिद्धि के प्रतिबन्धक सम्पूर्ण इस जन्म के या पूर्व जन्म के कर्मों को नष्ट करने के लिये कटिबद्ध हो गयो हुँ ।

अधीतवेदोऽस्मि कृत:श्रुतागमः श्रमोऽस्ति भूयानितिहासवर्त्मसु ।
गुरुप्यवज्ञाविमुखं सदा मनस्तदभ्युपायोऽत्र मया न दुर्लमः ॥३८॥

अन्वय:

 (अहं) श्रुतागमः (सन्) अधीतवेदः अस्मि । इतिहासवर्त्मसु भूयान् परिश्रमः कृतः । मनः गुरुषु सदा अवज्ञाविमुखम् अस्ति । तत् मया अत्र अभ्युपायः न दुर्लभः ।

व्याख्या

 अहं श्रुता गुरुमुखादाकर्णिता आगमाः शास्त्राणि येन एवम्भूतस्सन् अधीताः सम्यगभ्यस्ता वेदा ऋग्यजुस्सामाथर्ववेदा येन सोऽस्मि । इतिहासाना रामायण- महाभारतादीनां वर्त्मसु तत्प्रतिपादितमार्गेष्वपि भूयान्महत्परिश्रमः कृतः । मम मन: गुरुषु पूज्येषु सदा सर्वदैवाऽवज्ञाया अपमानत्परादृमुखं विमुखमस्ति । तत्तस्मात्कारणादत्र पुत्रवस्तुनि मयाऽभ्युपायो न दुर्लभः किन्तु सुलभस्सु- साध्यश्चेति भावः ।

भाषा

 मैने गुरूमुख से सब शास्त्रो का श्रवण कर वेदों को पढा है । रामायण महाभारतादि इतिहास प्रतिपादित मार्गों का परिश्रम से पालन किया है।


१धृतद्युतागमे—इत्यपि पाठ ।