पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/१४१

एतत् पृष्ठम् परिष्कृतम् अस्ति

( ११७ )

 ततस्मात्कारणात्प्रभूतो बहुलो भावो भंषितभावो यस्य स एष अहं जितानि वशीकृतानीन्द्रियाणीन्द्रियसमूहो येन स वशीकृतेन्द्रियसमूहस्सन् त्वया सह भक्त्या सह तावत्कालपर्यन्तं तपसे तपश्चरणाय प्रयते महोद्योगं करिष्ये यावत्कालं विभावर्या रजन्याः विभावरौतमस्विन्यौ रजनौ यामिनी तमौ इत्यमरः । वल्लभः प्रियश्चन्द्रस्तस्य खण्ड एव कलैवं मण्डनं भूषणं यस्य स जगतां भुवनानां ‘विष्टपं भुवनं जगत्' इत्यमरः । गुरु श्रेष्ठ सः शंकरो दयां कृपामायाति प्रप्नोति । करुणार्द्धमानसरसन्नभीष्टवरप्रदानं करोतीत्यर्थं ।

भाषा

 इसलिये दृढ भक्ति से युक्त, मैं तुम्हारे साथ इन्द्रियो को वश में करके अर्थात् सयम से तब्र तक तप करने में प्रयत्नशील रहूगा जब तक अर्धचन्द्र से शोभित जगत्प्रभु शंकर को मेरे ऊपर दया न आजाए ।

विधाय शान्त्यै कलुपस्य कर्मणस्तदेप सर्वेन्द्रियतापनं तपः ।
नयामि भक्त्या झटिति प्रसन्नतामखण्डया खण्डशशाङ्कशेखरम् ॥४२॥॥

अन्वयः

 तत् एषः (अहं) कलुपस्य कर्मणः शान्त्यै सर्वेन्द्रियतापनं तपः विधाय अखण्ढया भक्त्या खण्डशशाङ्कशेखरं झटिति प्रसन्नतां नयामि ।

व्याख्या

 स्थूलाक्षरोदाहरणम्तत्तस्मारकारणादेयोऽङ कलुषस्य दुष्कृतस्य 'कलुयं वृजिनैनोऽघमंहो दुरित- दुष्कृतम् " इत्यमरः । कर्मणः क्रियाकलापस्य शान्त्यै विनाशाय सर्वेन्द्रियाणां नेत्रादीनां मापनं पीडनं यस्मिन्तत्तपो दुष्करतपस्यं विश्रामं कृत्वाऽखण्डयाऽवच्छिन्न- सन्तानया भक्या दृढभक्त्येत्यर्थः । खण्डश्चासौ शशाङ्कश्चन्द्रश्च सः शेखरं ॥ शिरोभूषणं यस्य ते शिवं झटिति वाक् 'श्राक् झटित्यंप्रसन्हाय द्राध्द मंक्षुं सपदि द्रुते' इत्यमर । प्रसन्नतां प्रसादं नयामि प्रापयामि । अत्रानुप्रासऽलङ्कारः।}}

भाषा

 इसलिये में पुत्रप्रात्पि मे बाधक पापकर्मों का नाश कर डालने के लिये समग्र इन्द्रियो लो कष्टप्रद, घोर तपस्या कर, अविछिन्न दृढभक्ति से चन्द्रशेखर भगवान् शङ्करो को शीघ्र ही प्रसन्न करोगा ।