( ११८ )
तथेति देव्या कृतसम्मतिस्ततः समस्तचिन्तां विनिवेश्य मन्त्रिषु ।
अभूदनुष्ठानविशेषतत्परः स पार्थिवः प्रार्थितवस्तुसिद्धये ।।४३॥
अन्वयः
ततः देव्या इति तथा कृतसम्पतिः सः पार्थिवः समस्तचिन्तां मन्त्रिषु विनिवेश्य प्रार्थितवस्तुसिद्धये अनुष्ठानविशेषतत्परः अभूत् ।
व्याख्या
स्थूलाक्षरोदाहरणम्ततस्तदनन्तरं देव्या यत्न्येतीदं भबदुक्तं पुत्रोत्पतिरूपं कार्यं तपस्साबनेन स्या- दिति हेतोस्तयैवाऽस्तु, इति कृता सम्मतर्येन स कृतनिश्चयस्स पार्थिर्वो राजा समस्तां सम्पूर्णां चिन्तां राज्यभारचिन्तां मन्त्रिष्वमात्येषु विनिवेश्य विनिक्षिप्य आर्थितस्याऽभोष्टस्य वस्तुन पुत्रस्य सिद्धये प्राप्तयेऽनुष्ठानविशेषे विशिष्टानुष्ठाने तत्पर आसक्तोऽभूत् । 'तत्परे प्रसितासक्तौ' इत्यमरः ।}}
भाषा
इसके अनन्तर, अपनी रानी को सम्मति मिलने पर, उस राजाने राजकाज का बोझ मन्त्रियों को सौपकर अभीष्ट पुत्रप्राप्ति की सिद्धि के लिये विशिष्ट अनुष्ठान करना प्रारम्भ कर दिय ।
तपः स्वहस्ताहृतपुष्पपूजित-त्रिलोचनःस्थण्डिलवासधूसरः ।
तथा स राजर्षिरमाधयद्यथा महर्पयोऽस्मादपकर्षमाययुः ।।४४।।
अन्वयः
सः राजर्षिः स्वहस्ताहृतपुष्पपूजितविलोचनःस्थण्डिलबासधूसरः (सन्)
तथा तपः असाधयत् यथा अस्मात् महर्षयः अपकर्षम् आययुः ।
व्याख्या
स्थूलाक्षरोदाहरणम्स राजर्षिः ऋषिव्रतगृहीतो नृप स्वहस्ताभ्यां स्वकराभ्यामाहूतानि समानीतानि च तानि पुष्पाणि कुसुमानि तैः पूजितोऽभ्यचितस्त्रिलोचनः शंकरो येन सः स्थण्डिले भूमिविशेषे वासेन शयनादिना 'य. स्थण्डिले व्रतवशाच्छेते स्थण्डिलशम्यसौ इत्यमरः । घूसरः सरजस्कस्सत् तथोग्रं तपस्तपश्चरणमसाधयत् कृतवान्}}