पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/१४४

एतत् पृष्ठम् परिष्कृतम् अस्ति

( १२० )


{{bold|

अन्वयः

}

 कठोरव्रतचर्यया कृशं नृपं सा समाहिता नरनाथसुन्दरी निशातशाणो ल्लिखितं माणिक्यम् अतीव निर्मला प्रभा इव समन्वगात् ।

व्याख्या

 कठोरं कठिंनञ्चतद्व्रतश्च तपस्यातपं कठोरव्रतं तस्य चर्याऽऽचरणं तया कृशं कृशतनुं नृपं राजानं सा प्रसिद्धा समाहिता समाधौ स्यिता, निश्चलचित्तेन तपः परायणा नरनाथस्य राज्ञः सुन्दरी पत्नी निशातस्तीक्ष्णः शाणः कपोपलं शाणस्तु निकषः कष :” इत्यमरः । तेनोल्लिखितं घर्षितमत एव कृशं माणिक्यं मणिम- तीवाऽत्यन्तं निर्मला स्वच्छा प्रभेव कान्तिरिव समन्वगादनुसृतवती । यथा माणिक्यस्य कषे घर्षणेन कृशता प्रभा चऽनुसरति तथैव कठोरव्रतेन कृशं नृपं तस्य राज्ञी समनुसृतवतीति भावः । अत्रोपमालङ्कारः ।

भाषा

 जिस प्रकार तेज सान पर चढाए हुए माणिक्य में कृशता के साथ अत्यन्त उज्ज्वल चमक भी आजाती है उसी प्रकार कठोर तपस्या से कृश उस राजा का, तपस्या में लगी रानी बराबर निश्चल चित्त से साथ देतो रही ।

मृगाङ्कचूडस्य किरीटनिम्नगातरङ्गवातैरिव वारितश्रमा ।
उपाचरत्सम्यगसौ नराधिपं स्वहस्तलिप्तेश्वरमन्दिराजिरा ॥४७॥


अन्वयः

 स्वहस्तलिप्तेश्वरमन्दिराजिरा मृगाङ्कचूडस्य किरीटनिम्नगातरङ्गवातैः वारितश्रमा इव असौ नराधिपं सम्यक् उपाचरत् ।

व्याख्या

 स्वहस्तेन निजकरेण लिप्तं गोमयादिनोपलिप्तमश्वरस्य शिवस्य मन्दिरस्याड- जिरमङ्गण् यया सा मृगडूश्चन्द्रश्चूड़े ललाटे यस्य तस्य शिवस्य किरीटरूपा मुकुटस्या ‘मुकुटं किरीटं पुघ्रपुसकम्' इत्यमरः । या निम्नगा गङ्गानदी तस्यास्तरङ्गवातैर्वीचिपवनैर्वारितोऽपनीतः श्रमः क्लेशो यस्याः सा वारितश्रमे- वाऽसौ नृपपत्नी राजमहिषी मराधिपं राजानं सम्यक् प्रकारेण सिषेवे सेवितवती । अत्रोत्प्रेक्षालङ्कारः ।