पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/१५१

एतत् पृष्ठम् परिष्कृतम् अस्ति

( १२७ )

व्याख्या

 पुरुहूतसन्निभ इन्द्रसदृशः ‘बुद्धश्रवा शुनाशीर: पुरुहुत्: पुरन्दरः' इत्यमरः ।क्षितेः पृथिव्या ईश्वरः स्वामी क्रमेण किञ्चिकालानन्तर शुभे माङ्गलिके •कल्याण मड्गल शुभम्' इत्यमरः । मुहूर्त काले तस्या स्ववल्लभाषां कमनीय सुन्दरमात्मजं पुत्रं 'आत्मा वै जायते पुत्रः इति श्रुतेः। अवाप्य लध्वा सम्पादितः कृतो मांसलोऽतिबहुलोऽतिसमृद्धश्चोत्सवो महो येन सः ‘मह उद्धव उत्सवः’ इत्यमरः । एवम्भूतस्सन् परा समुत्कृष्टा निवृतिं मुखमगात् प्राप ।

भाषा

 आगे चलकर इन्द्र के रामान प्रतापी पृथ्वीपतिं आहवमल्लदेव ने उस रानी से सुमुहूर्त में एक सुन्दर पुत्र प्राप्त कर और उस उपलक्ष्य में एक बड़ा उत्सव मना कर बहुत आनन्द प्राप्त किया ।

स सोमवनेत्रचकोरपाणां चकार गोत्रस्य यदुज्वलाननः ।
यथोचितं सोम इति क्षमापतेस्ततः प्रसन्नदभिधानमाप्तवान् ॥५८॥

अन्वयः

 यत् उज्ज्वलाननः सः गोत्रस्य सोमयत् नेत्रचकोरपारणां चकार ततः प्रसन्नात् क्षमापतेः यथोचितं सोमः इति अभिधानम् आप्तवान् ।

व्याख्या

 यघस्मात्कारणादुज्ज्वलं विशिष्टशोभान्वितमाननं मुखं यस्य स नूतनजातशिशुगोत्रस्य चुलुक्ययशस्य सोमवच्चन्द्र इव नेत्राणि नयनान्येव चकोराश्चचकोरका"जीयजीवश्चकोरकः" इत्यमरः । पक्षिविशेष ये चन्द्रिकया तुष्यन्ति ।तेषां पारणा रान्तोष चकार ततस्तस्मात्कारणात्प्रसन्नादानन्दयुक्तत्क्षपते राज्ञ यथोचितमुचितमनतिक्रम्यं वर्तत इति । यथायोग्यं सोम इत्याकारकमभिधानं नामाऽऽप्तावान प्राप्तवान् । अत्रोपमारूपकयोः संकरः ।

भाषा

 पुषि सुन्दर मुखवाले उस बाला ने चन्द्रमा के समान चुलुक्यवर्शामि के नेत्र में चकोर को सन्तुष्ट किया इसलिये प्रसन्न चित राजा ने उसने सोम यह नाम पाया । अर्थात् उसका नाम सोम रह गया ।