पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/१५२

एतत् पृष्ठम् परिष्कृतम् अस्ति

( १२८ )


अनन्यसामान्यनूजशंसिनीं स्मरन्नजस्त्र गिरमुद्रतां दिवः ।
द्वितीयगर्भार्थमभूत्स निर्भरं समुत्सुको मध्यमलोकनायकः ||५६||

अन्वयः

 मध्यमलोकनायक: सः दियः उद्रतां अनन्यसामान्यतनूजरांसिनीं गिर अजस्त्रं स्मरन् द्वितीयगर्भाथे निर्भरं समुत्सुकः अभूत् ।


व्याख्या

 मध्यमश्चासो लोकश्च मध्यमलोको भूलोकस्तस्य नायको मध्यमलोकपालो भूपालः स राजाऽऽहवमल्लदेवो दिव आकाशादुद्गतां सभागतां माऽन्यः सामान्यः स्समानो यस्य स चाऽसौ तनूजः पुत्रश्च तं शंसति निवेदयतीति तां गिरं वाणीमजस्त्रं निरन्तरं ‘नित्यानवरताजस्रम्' इत्यमरः । स्मरन् द्वितयगर्भार्थं द्वितीयगर्भकृते निर्भरमत्यन्तं समुत्सुक उत्कष्ठितोऽभूत्।

भाषा

 वह भूलोक का राजा असाधारण व अलौकिक पुत्र प्राप्त होने की आकाशवाणी को सदैव स्मरण करता हुआ, दूसरे गर्भ के लिये अत्यन्त उत्कण्ठित हुआ।

स्थितस्य गर्भे प्रभयेव कस्यचिद् विलिप्यमानां स्फटिकामलत्विषः ।
स गएडपालीं विसदण्डपाण्डुरां ददर्श देव्याः पृथिवीपतिस्ततः॥६०॥

अन्वयः

 ततः पृथिवीपतिः स्फटिकामलत्विषः गर्भे स्थितस्य कस्यचित् प्रभया इव विलप्यमानां विसदण्डपाण्डुरां देव्याः गण्डपालीं ददर्श ।

व्याख्या

 ततस्तदनन्तरं पृथिवीपत का स्फटिकयाऽमला निर्मलात्विदडिव प्रभेव‘स्युः प्रभारुप्रुचिस्त्विड्भाभाच्छविद्युतिदीप्तयः" इत्यमरः। त्विट् प्रभा यस्य स तस्य स्फटिकमणिसमानशुभ्रकान्तेगर्भे उदराभ्यन्तरे स्थितस्य विद्यमानस्य कस्यचिद् गर्भस्य प्रभयेस कान्त्यैय विलिप्यमानां रज्यमानामनुलिप्यमानाञ्च बिसदण्ड इव मृणालदण्ड इव ‘मूणालं विसमम्जादि इत्यमरः । पाण्डुरां शुभ्रवर्णा देव्यामहिप्या गण्डपालीं कपोलं ददर्शा दृष्टवान् । अत्रोपमोत्प्रेक्षपो: संकरः ।