पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/१५४

एतत् पृष्ठम् परिष्कृतम् अस्ति

( १३० )

उवाह घौतां क्षितिपालवल्लभा सुधाप्रवाहैरिव देहकन्दलीम् ।
विपादपङ्कक्षयतः क्षमापतेर्निरन्तरं तु प्रससाद मानसम् ॥६२॥

अन्वयः

 क्षितिपालबल्लभा सुधाप्रवाहैः धौताम् इव देहकन्दलीम् उवाह । क्षमापतेः मानसं तु बिपादपद्धक्षयतः निरन्तरं प्रससाद ।

व्याख्या

 क्षितिपालस्य भूपालस्य बल्लभा प्रिया राज्ञी सुधाया अमृतस्य प्रवाहैः संतानंधौतां प्रक्षालितामत एव श्वेतामिव देहकन्बलीं शरीरलतामुवाह धारितवती। क्षमापतेः पृथ्वोपतेः 'विपुला गह्वरी घात्री गौरिला कुंभिनी क्षमा । भूतघात्री रत्नगर्भा जगती सागराम्बरा ।' इत्यमरः । मानसं मनस्तु विषादो दुःखं स एव पङ्कः कर्दमस्तस्य क्षयतो विनाशात् निरन्तरमजखं प्रससाद प्रसन्नतां समवाप । मानसं सर्: पद्मराहित्याद्यया निर्मलजलेन प्रसन्नतां प्राप्नोति तथैव नृपस्य मना दुःखराहित्या गर्भचिन्हैः सुख प्राप । अत्रोत्प्रेक्षरूपकवश्लेयाणां संकरस्तेन शरदृतुवृत्तान्तः प्रतीयत इति वस्तुध्वनि ।

भाषा

 रानी, अमृत से धोई हुई के समान श्वेत शरीर को धारण करने लगी अर्थात् रानी सफेद पडने लगी । राजा का मन दुख रूपी कीचड का क्षय होने से निरन्तर प्रसन्न होने लगा। जिस प्रकार कीचड दूर होकर निर्मल जल रहने से मानस सरोवर प्रसन्न होता है वैसे ही राजा का मन दु ख दूर होकर गर्मी के चिन्ह से निरन्तर प्रासन्न हुआ ।

निपीड्य चन्द्रं पयसे निवेशिता ध्रुवं तदीयस्तनकुम्भयोः सुधा ।
यदुत्पलश्यामलमाननं तयोः सलाच्छनच्छायमिव व्यराजत ।।६३॥ ।

अन्वयः

 पयसे चन्द्रे निपीड्य सुधा तदीयस्तनकुम्भयोः ध्रुवं निवेशिता । यत् तयोः उत्पलश्यामलम् आननं सलाच्छनच्छायम् इव व्यराजत ।