पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/१६८

एतत् पृष्ठम् परिष्कृतम् अस्ति

( १४२ )


स्योदयः प्रादुर्भावो यस्य स नरेश्वरो राजा मुदाऽनन्दप्रवाहेण क्वचिन्न भाति स्म हर्षस्येयत्तां न प्राप्नोति स्म । राजनि तस्मिन् हर्षातिरेको जात इति भावः । अत्रोत्प्रेक्षारूपकयोः संसृष्टिः ।

भाषा

 त्रिभुवन की राज्यश्री से सप्रेम अवलोकित होने के समान तथा चन्द्रकिरणों को जलरूप में परिवर्तित कर उस जल से स्नान किये हुए के समान, शीघ्र ही जिसकी इच्छा लता में पुत्र रूप फल का उद्गम होने वाला है, ऐसा बह राजा हर्ष से फूला नही समाता था ।

अथ युग्मेन नृपल्लभायाः सूतिकागृहप्रवेशं वर्णयति कविः

भिषग्भिरापादितसर्वभेषजं वितीर्णरक्षाविधिमण्डलाक्षतम् ।
विशारदाभिः प्रसवोचिते विधौ निरन्तरं गोत्रवधूभिरञ्जितम् ॥८०॥
विवेश सुभ्रूरथ सूतिकागृहं प्रधानदैवज्ञनिवेदिते दिने ।
समुल्लसद्भिः शकुनैः सहस्रशः समर्पयन्ती नृपतेर्महोत्सवम् ८१ ॥

अन्वयः

 अथ सुभ्रूः प्रधानदैवज्ञनिवेदिते दिने भिषग्भिः आपादितसर्वभेषजं वितीर्णरक्षाविधिमण्डलाक्षतं प्रसवोचिते विधौ विशारदाभिः गोत्रवधूभिः निरन्तरम् अञ्चितं सूतिकागृहं समुल्लसद्भिः सहस्रशः शकुनैः नृपतेः महोत्सवं समर्पयन्ती विवेश ।

व्याख्या

 अथाऽनन्तरं सुष्ठु भ्रूवो यस्याः सा सुभ्रू राजमहिषी प्रघानैः श्रेष्ठैदैवज्ञैर्मोहूfतर्कैः ‘सांवत्सरो ज्योतिषको दैवज्ञगणकावपि । स्युर्मोहूर्तिकमोहूर्तंज्ञानिकार्तातिका अपि इत्यमरः । निवेदिते कथिते दिने शुभदिवसे भियग्भिर्वैद्यरापादितानि सम्पावितानि सर्वाणि समग्राणि भेषजान्यौषधिद्रव्याणि यस्मिन्तत्, वितीर्णानि दत्तानि रक्षाविषये नवजातबालरक्षार्थं मण्डलानि यन्त्रविशेषाण्यक्षता अभिमन्त्रित मन्त्राक्षताश्च यस्मिन्तत्, प्रसवस्य जननकर्मण उचिते सुखप्रसवकारिणि समुचिते विधायनुष्ठाने विशारदाभिस्तत्कार्यकुशलाभिः गोत्रवधूभिः कुलाङ्गनाभिर्निरन्तरं सततमन्त्रितं पूजितं सुतिकागृहमरिष्टै' 'अरिष्टं सूतिकागृहम्’ इत्यमरः। समुल्ल