पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/१७१

एतत् पृष्ठम् परिष्कृतम् अस्ति

( १४५ )


अन्वयः

 गृहोदरस्थे जरतीपरिग्रहे उपांशु किमपि स्वमतोपदेशिनि (सति) अनल्पशोफासु शुकाङ्गनासु अपि निवासपञ्जरात् वितीर्णकर्णासु सतीषु (नृपतेर्नन्दनोऽजायतेत्यन्वयः) ।

व्याख्या

 गृहोदरस्थे प्रसूतिगृहमध्यस्थे जरतीपरिग्रहे युद्धनारीसमूहे उपांशु रहः शनै रित्यर्थः। ‘विविक्तविजनच्छन्ननिःशलाकास्तथा रहः। रहश्चोपांशु' । इत्यमरः किमपि प्रच्छन्नमुपायमालम्ब्य स्वमतस्य स्वाभिप्रायस्योपदेशिनि प्रकाश्यमातन्वति सति ? ,अनल्पः शोको यासां तासु बहुशोकासु कीराङ्गनास्वपि शुकस्त्रीष्वपि निवासपञ्जरात् स्वनिवासस्थानभूतपिञ्जरादेयं न तु बहिर्निःसृत्य तस्योपाया भावात् । वितीर्णो दत्तः कर्णः श्रवणं याभिस्तासु किम्भवतीति सोत्कण्ठजिज्ञा सायां सर्वमाकर्णयन्तीषु सतीषु' (नृपतेर्नन्दनोऽजायतेति सम्बन्धः () - अfतशयोक्त्यलङ्कारः।


भाषा


 प्रसूतिघर में बुडढी स्त्रियो के धीरे धीरे अपने विचार के अनुसार कुछ उपाय बताते रहने पर, अत्यधिक दु खी, पंजरे में की सुग्गियो मे भी बान देकर सब सुनते रहने पर (राजा को पुत्र हुआ ।)



अलभ्यत प्राक्तनचक्रवतिंता न जन्म यत्राद्भूतधाम्निकेनचित् ।
तथाविधं लग्नमयाप्य नन्दनः । शिवप्रसादान्नृपतेरजायत ॥८५॥


अन्वयः


 'अद्भुतधाम्नि यत्र प्रक्तनचक्रवर्तिना। केनचित् अपि जन्म न अलभ्यत तथाविधं लग्नमवाप्य शिवप्रसादात् नृपतेः नन्दन- अजायत ।


व्याख्या


{{bold| अद्भूतायाडडश्चर्यस्यं धाम स्थानं । तस्मिन्नाश्चर्यसमुत्पादवस्तूनां यस्मिन् समुद्भवो भवति तादृशे यत्र लग्ने प्राक्तनः पूर्वजातश्चासौ चक्रवर्ति सार्वभौमश्च तेन केनचिदपि राज्ञा जग्म जमु. 'जमुर्जननजन्मामि जनिरूत्पत्तिरूद्भवःइत्यमरः । नाडलभ्यत लेभे तथाविधं लग्नं सुमुहुर्तमवाप्य संप्राप्य शिवप्रसादाच्छङ्करकृपा वशाद्नृपतेर्नृपमाहवमल्लदेवं 'कर्मणि षष्ठी ’ पुत्रः शूनुरजायत समुत्पन्नः ।