पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/१७३

एतत् पृष्ठम् परिष्कृतम् अस्ति

( ३४७ )

 जगतां भुवनगतमनुष्याणां लोचननि नयनानि तेषां कृते सुखदाय कत्वाद्बालचन्द्रमा बालशशी से नवजातशिंशुर्नवस्य नूतनस्य प्रतापस्य तेजसोड ङ्कुराणां किरणाना चक्रं वर्तुलाकारं मण्डलं तद्वत्कान्तया रमणीययानिरन्तरम- विच्छिन्न पङ्कत्याकारमाऽऽरात्रिकं बालस्य पुरस्तात् प्रज्वलित दीपं भ्रमणं तस्य दीपसम्पदा दीपसम्पत्त्या, उदयसन्ध्ययेव सायं सन्ध्ययेव श्रियं शोभां समाजहार स्वीचकार । अर्थात् द्वितीयाचन्द्रः सन्ध्याकाले लौकेरारार्तिक्येनं पूज्यंते तद्वदेयं बाल आरार्तिंवयेन शोभितोऽभूदिति भावं । अत्रोपमारूपकयोः सकरः ।


भाषा


?  जगत् भर के मनुष्य की आंखो को आनन्द देने वाला बालचन्द्र स्वरूप वह बालक, नूतन तेज की किरणो के चक्र के समान रमणीय सतत आरती के दीपक की ज्योति से साय कालकी बालचन्द्र की शोभा को उत्पन्न कर रहा था । प्राय सँभी लोग दूज के चाँद की सायं काल में आरती कर पूजा करते है । वैसे ही यह भी आरती से शोभित हुआ ।


आसनरत्नगृहभित्तिषु निर्मलासु लोकोत्तरेण वपुषा प्रतिबिम्बितेन।
सेवां स्मरिष्यति कृतज्ञतयेव दिग्भिरर्कगृहीत इव राजसुतो रराज |८८॥


अन्वयः


 राजसुतः निर्मलासु आसन्नरत्नगृहभित्तिषु प्रतिबिम्बितेन लोकोत्तरेण वपुषा (अयं) कृतज्ञतया सेवां स्मरिष्यति (इति) दिग्भिः अङ्के गृहीतः इव रराज ।


व्याख्या

 राज्ञः सुतो राजपुत्रो निर्मलासु निर्मलकान्तिप्याडडतप्ताः समीपस्यश्च रत्नगृहभित्तयो रत्नखचितगेहकुड्यानि तासु प्रतिबिम्बितेन प्रतिच्छायां गतेन लोकोत्तरेणाऽलौकिकेन वपुषा शरीरेण गात्र वपु संहननं शरीरं वर्त्मं विग्रहः' इत्यमरः । हेतुनाऽयं कुमार कृतज्ञतया कृतमुपकृतं जानाति स्मरतीति कृतज्ञ स्तस्य भार्याः कृतज्ञता तथा सेवामस्मत्कृतां सेयां स्मरिष्यतीति दिग्भिकाषिठाभिरङ्के उत्सङ्गे गृहीत इव पारित इव रराज शुशुभे । अत्रोत्प्रेक्षालङ्कारः । वसन्त तिलकाच्छन्दः । उक्ता वसन्ततिलका तभगाजगगोगः ।