पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/१७४

एतत् पृष्ठम् परिष्कृतम् अस्ति

( १५० )


अन्वयः


 अथ विधानवित् असौ अवनीनाथः समुचिते कर्मणि आस्यापरेण पुरोधसा कथितं सर्वं विधाय प्रतेि सूनुस्पर्शात् मुहुः महोत्सवम् अन्वभूत् । हि इह गृहिणां गार्हस्थस्य इदं प्रधानं फलम्।


व्याख्या


 अथ पुत्रजन्मानन्तरं विधानं शास्त्रविधिं वेति जानातीति विधानविच्छास्त्र विधिज्ञोऽसौ प्रसिद्धोऽवनीनायः पृथिवीपतिः समुचिते पुत्रजन्मसमयोचिते कर्मणि धार्मिककृत्ये आस्था दृढभक्तिः परं प्रधानं यस्य स तेन धार्मिककार्येषु दृढभक्ति परायणेन पुरोधसा पुरोहितेन ‘पुरोधास्तु पुरोहितः’ इत्यमर । कथितं सूचितं सर्वं समग्रं धर्मकृत्यं जातकर्मादिकं विधाय सम्पाद्य प्रतिसूनुस्पर्शात् प्रत्येकं पुत्र- स्पर्शावसरान्मुहुः पुतः पुनः ‘मुहुः पुनः पुनः शश्वदभीक्षणम्' इत्यमरः । महोत्सवं महदानन्दमन्वभूदनुभवविषयमकुर्वत । हि यस्मात्कारणादिहाऽस्मिन् संसारे गृहिणां गृहस्थाश्रमवासिनां जनानां गार्हस्थस्य गृहस्थधर्मस्येदं पुत्रमुखदर्शन रूपमेव प्रधानं मुख्यं फलम् । अत्राऽर्थान्तरन्यासालङ्कारः। हरिणीच्छन्दः । "रसयुगहर्यैन्सो भ्रो स्लौ गो यदा हरिणी तदा।”


भाषा


पुत्र जन्म होने के अनन्तर शास्त्रीय विधियो को जाननेवाले उस राजा ने श्रद्धालु कुलपुरोहित द्वारा कथित पुत्र जन्म के लिये उचित सब जातकर्म आदि धर्म कृत्यों को विधिवत् कर पुत्रदेह के प्रत्येक स्पर्श के अवसर से बार २ परम आनन्द का अनुभव किया । क्योकि इस ससार में गृहस्थाश्रम में रहने वालो के लिये गार्हस्थ धर्म का पुत्र प्राप्ति ही मुख्य फल है । इति श्री त्रिभुवनमल्लदेवविद्यापति-काश्मीरकभट्ट श्री बिल्हणविरचिते । विक्रमाङ्कदेव-चरिते महाकाव्ये द्वितीयः सर्गः ।


नेत्राब्जाभ्रयुगाङ्कविक्रमशरत्कालेऽत्र दामोदरात्
भारद्वाजवुधोत्तमात्समुदितः श्रीविश्वनाथः ।
चक्रे , रामकुबेरपण्डितवरात्संप्राप्तसाहाय्यक
ष्टीकायुग्ममिदं रमफकरूणया सर्गे द्वितीये शुभे ।
aॐ शान्तिः शान्ति शान्तिः।