पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/१७८

एतत् पृष्ठम् परिष्कृतम् अस्ति

(१५२)


देवस्य चालुक्यविभूषणस्य भार्या यशोरञ्जितदिङ्मुखेन ।
तेनावदातद्युतिना रराज साम्राज्यलक्ष्मीरिव विक्रमेण ॥२॥

अन्वयः

 चालुक्यविभूषणस्य देवस्य भार्या यशोरञ्जितदिङ्मुखेन अवदातद्युतिना तेन साम्राज्यलक्ष्मीः विक्रमेण इव रराज ।

व्याख्या


 चालुक्यस्य चालुक्यवंशस्य विभूषणमलङ्कारपस्तस्य देवस्य राज्ञ आहव- मल्लदेवस्य भार्या जाया ‘भार्या जायाऽथ पुंभूम्नि दाराः स्यात्तु कुटुम्बिनी' इत्यमरः । यशसा कीर्त्या रञ्जितानि प्रसादितानि दिशामाशानां मुखन्यप्रभागा येन स । तेनाऽवदाता सिता द्युतिःकान्तिर्यस्य तेन धवलकान्तिना 'अयदातः सितो गौरो वलक्षो धवलोऽर्जुनः' । इत्यमरः । तेन राजकुमारेण विक्रमेण साम्राज्यस्य सार्वभौमत्वस्य लक्ष्मीः श्रीर्विक्रमेण शौर्येणेव रराज शोभिताऽभूत् । अत्रोपमालङ्कारः ।

भाषा

 जिस प्रकार साम्राज्य की लक्ष्मी (विक्रम) पराक्रम से शोभित होती हैं। उसी प्रकार चालुक्यवंश के भूषण राजा आहवमल्लदेव की रानी सब दिशाओं के अग्र भागो को अपने यश से उज्वल करने याले गौर वर्ण अपने पुत्र विक्रम से शोभित हुई।


अथ बाललीलां वर्णयति कवि


आलम्ब्य हारं करपल्लवेन पयोधरं पातुमसौ प्रवृत्तः ।
भोगेष्वबाह्या गुणिनो ममेति स्वभावमात्मीयमिवाभ्यधत्त ।|३

अन्वयः

 असौ हारं करपद्ल्लवेन आलम्ब्य पयोधरं पातुं प्रवृत्तः (सन्) मम भोगेषु गुणिनः अग्राह्याः इति आत्मीयं स्यभावम् अभ्यधत्त इव ।

व्याख्या

 असौ बालो स्यमातुंर्हार मुक्ताहारं करपल्लवेन हस्तपल्लवेनाऽऽलम्ब्य विधूत्य पयोधरं स्तनं पातुं स्तनगतदुग्धपानं कर्तुं प्रवृत्तो लग्नस्सन् मम भोगेषु भोग्य-