पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/१७९

एतत् पृष्ठम् परिष्कृतम् अस्ति

(१५३)


वस्तुषु गुणिनौ गुणवन्त पुरुषा हारादयं श्लिष्टगूणपदार्थासूत्र संग्रथिता अतस्तेऽपि गुणिनोऽबाह्या अन्तरङ्गा मया सह गुणवन्तोऽपि भोग्यवस्तुषु सुलमनुभवन्त्वित्या स्मीयं स्वभावं स्वकीयां प्रकृतिमभ्ययत्तेव कथितवानिव ।• नाऽहं स्वोपभोग्य वस्तुषु गुणिनो विहायोपभोगे प्रवृत्तो भविष्यामीति सूचयन्निव गुणिनं मुक्ताहारं करेण धृत्वा स्तनपानरूपोपभोगे प्रवृत्त इति भावः । अत्रोत्प्रेक्षालङ्कारः ।

भाषा

 यह बालक अपनी माता के मोती के हार को अर्थात् गुणो को अपने कोमल- गुणपत्ते के ऐसे सुकुमार हाथ से पकड़ कर स्तनपान करता हुआ मानो अपने स्वभाव का प्रकट करता था कि उसके उपभोग में गुणीलोग कभी भी छूट नही सकते अर्थात् वह गुणियो को अपने उपभोग में सदैव साथ रक्खेगा । (गुण शब्द का अर्थ डोरा होने से डोरे में परोया मोती का हार भी गुणी कहा जा सकता है ।)


मातृस्तनोत्सङ्गविलासहारप्रभा। प्रविश्येव विनिःसरन्ती ।
तस्यानिमित्तस्मितचन्द्रिकाभून्नरेन्द्रनेत्रोत्सववैजयन्ती ॥४॥

अन्वयः

 तस्य मातृस्तनोत्सङ्गविलासहारप्रभा प्रविश्य विनिःसरन्ती इव अनि भित्तस्मितचन्द्रिका नरेन्द्रनेत्रोत्सववैजयन्ती अभूत् ।

व्याख्या

 तस्य बालकस्य मातुः स्तनौ कुचौ मातृस्तनौ तयोत्सङ्गे मध्ये विलासहरो विलासार्थ धृतो मुक्ताहारस्तस्य प्रभा कान्तिर्बालं प्रविश्याऽभ्यन्तरं गत्वा पुनः विनिस्सरतीव बहिरागतेव नास्ति निमित्त कारणं यस्मिस्तत् स्मितमीषद्धास एव चन्द्रिका ज्योत्स्ना चन्द्रिका कौमुदी ज्योत्स्ना' इत्यमरः । चन्द्रप्रकाश इत्यर्थः । नरेन्द्रस्य राज्ञो नेत्रोत्सवस्य नयनानन्दस्य ‘लोचनं नयनं नेत्रमीक्षणं चक्षुरक्षिणी' इत्यमरः । वैजयन्ती विज्ञापवित्री पताका तत्स्वल्पाऽभूत् । श्वेतवर्णा मुक्ताहारकान्तिरेव बालं प्रविश्य बालकस्याडकारणेबद्धासरूपचन्द्रिका रूपेण बहिरागता नृपस्य नयननन्दकारी बभूवेत्यर्थः । अत्रोत्प्रेक्षालङ्कारः ।

भाषा

उरस बालक की माता के कुचो के मध्य में विलसित मोती के हार की सफेद