पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/१८१

एतत् पृष्ठम् परिष्कृतम् अस्ति

( १५५ )

व्याख्या

 यद्यस्मात्कारणावसौ स उन्नतोऽभ्युदयोन्मुख आत्मा यस्य स. कुमारो राजपुत्र उपविष्टान् भूमावासीनान् पुरूषान् त्यक्त्वा विहाय तदुत्सङ्गं परित्यज्येत्यर्थः । समुत्थितानामूर्ध्वस्यानां पुरुषाणां सविधे तदङ्केषु जगाम स्वेच्छया गतवान् तेन कारणेन नीचेषु नीचजनेष्वामि भविष्यदधिकमनल्पं वैमुख्यं विरुद्धदिशि गतं मुखं यस्य स तस्य भावो वैमुख्यं नीचप्रतिकूलत्वचिसचचक्ष इत्र जगादेवाऽसूचयदि- वेत्यर्थः । अत्रोत्प्रेक्षालङ्कारः ।


भाषा

 चूंकि यह उन्नत आत्मा वाला बालक बैठे हुए मनुष्य की गोदो को छोड कर खडे भये हुए मनुष्य की गोदो में जाता था इससे मान उसने प्रकट कर दिया कि' वह भविष्य में नीचे या नीच मनुष्यो से अधिक विमुख रहेगा।


धात्रेयिकाया स्मितपूर्वकं यददत्त हुङ्कारमसौ कुमारः।
अपूरयत्तेन नृपस्य कर्णोौ पेयूषगएङ्पपरम्पराभिः ||७|

अन्वयः

 यत् असौ कुमारः धात्रेयिकायाः स्मितपूर्वकं हुङ्कारम् अदत्त तेन पेयूष गण्डूपपरम्पराभिः नृपस्य कर्णो अपूरयत् ।

व्याख्या

 यद्यत्मात्कारणदसौ पूर्वोक्तः कुमारो राजपुत्रो में स्तिपा उपमातुः स्मितपूर्वकं सस्मितं हुङ्कारशब्दं बालस्वाभाविंकशब्दमदत्त दत्तवान् तेन कारणेन पेयूषस्याऽमृतस्य गण्डूषं 'मुखपूर्तिः गण्डूषो मुखपूर्तो स्यादृगजहस्ताग लावपि । प्रसूत्या प्रमितेऽपिस्यात्’ इति हेमः । तेषां परम्पराभि सन्ततप्रयो गैर्नृपस्य राज्ञः कर्णौ श्रोत्रेऽपूरयत् संपूरितवान् । उपमात्रे हुङ्कारवानरूपबाल लीलया राजाडनन्दपरिपूर्णमानसो बभूवेति भावः । स्वभावोक्तिरलङ्कारः

भाषा

 यह बालक अपनी दाई के पुचकारने पर मुस्कुराते हुए हुँकारो भरता था इससे वह राजा के दोनो कानो को अमृत के गण्डूष की परम्परा से भर देता था । अर्थात् उन हुंकारियो को सुन कर राजा को परम आनन्द होता था ।