पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/१८८

एतत् पृष्ठम् परिष्कृतम् अस्ति

। १६० ) व्याख्या स राजपुत्रो मुखेन्दायाननचन्द्रे सचाराय गमनाय कृतोऽभिलाषो येन स कुरङ्गो लाच्छनमृगस्तस्य भीत्यर्थ भयोत्पादनायेवाऽपितेन धारितेन कण्ठावसक्तेन कण्ठ- लग्नेन व्याघ्रनख एवाङ्कुर स्तेनाऽराजत शुशुभे । बालमुखेन्दो लाच्छनमृगस्य गमनवारणाय व्याघ्रनखा कण्ठे समारोपिता । व्याघ्रनखेन तत्र व्याघ्रसता- मनुमाय मृगस्तत्र न गच्छति । अतएव बालस्य मुखचन्द्रो निष्कलङ्क इति भाव । बालकस्यारिष्ट निवारणार्थ तस्य गले व्याघ्रनखार्पण भारते प्रसितम् । फलोत्प्रेक्षाऽलङ्कार । सेन मुखस्य निष्कलचन्द्ररूपत्व ध्वन्यते । भाषा वह राज पुत्र, मुखरूपी चन्द्र में आने की अभिलाषा रखने वाले लान्छन मृग को डराने के लिए मानो गले में पहिने हुए व्याघ्रनखाकुर से शोभित हो रहा था अर्थात् व्याघ्र के भय से मृग वहाँ नहीं जा सकता अत एव उसका मुख रूपी चन्द्र निष्कलङ्क था। (लडको के गले में व्याघ्रनख पहनाने की प्रथा भारत में चिरकाल से चली आई है।) क्रीडन्समुत्सारितवारनारी-मञ्जीरनादागतराजहंसः । एकः क्षितेः पालयिता भविष्यन् स राजहंसासहनत्वमूचे ॥१४॥ श्रन्त्रयः कीडन्समुत्सारितवारनारीमञ्जीरनादागतराजहंसः सः एकः क्षितेः भवि- ष्यन् पालयिता ,राजहसासहनत्वम् ऊचे । व्याख्या क्रीडन् बालोचितक्रीडाविलास कुर्वन् समुत्सारिता निवारिता वारनारीणां वाराङ्गनानां 'वारस्त्री गणिका वैश्या रूपाजीवा' इत्यमर । मञ्जीरनादेन नूपुरशब्देनाऽऽगता राजहसा मरालश्रेष्ठा 'राजहसास्तु ते चञ्चुचरणैर्लोहितै सिता' इत्यमर । येन स एवम्भूत स बालक एक एवैकाक्येव सिते सम्पूर्ण- पृथिव्या भविष्यन् भावी पालयिता रक्षिता राजहसानां श्रेष्ठनृपाणामसहनत्वं तेषां महत्यासहनाक्षमत्वमूचे निवेदितवान् । श्लिष्टोत्प्रेक्षालङ्कार ।