पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/१९५

एतत् पृष्ठम् परिष्कृतम् अस्ति

( १६९ )


 इसि बीच में आहवमल्लदेव राजा को जगसिंह नामक तृतीय पुत्र भी हुआ। वयोकि भगवान् शङ्कर की कृपा, स्वप्न में भी, वचनानुकूल फलप्रदान के यश से वञ्चित नहीं हो सकती।


सर्वासु विद्यासु किमप्यकुण्ठभुत्कण्ठमानं समरोत्सवेभ्यः ।
श्रीविक्रमादित्यमथावलोक्य स चिन्तयामास नृपः कदाचित् ॥२६॥

अन्वयः


 अथ कदाचित् सः नृपः श्रीविक्रमादित्यं सर्वासु विद्यासु अकुण्ठं समरोत्सवेभ्यः किमपि उत्कण्ठमानम् अवलोक्य चिन्तयामास ।

व्याख्या

 अथाऽनन्तर कदाचित् कस्मिंश्चित्समये सः प्रसिद्धो नृपो भूपतिराह्वमल्लदेवः श्रीविक्रमादियं तन्नामकं स्वसुतं सर्वासु सकलासु विद्यासु शस्त्रशास्त्रविद्यास्वकुण्ठः ममन्दै निपुणमित्यर्थः 'कुण्ठो मन्द: क्रियासु यः' इत्यमरः । समरोत्सवेभ्यो युद्धकार्येभ्यः किमपि अनिर्वचनीयतयोत्कण्ठमानं समुत्सुकमबलोक्य दृष्ट्वा चिन्तया मास विचारयामास ।

भाषा

 कुछ काल के अनन्तर, समग्न शस्त्र और शास्त्र विद्याओं में निपुण अपने मध्यम पुत्र श्री विक्रमादित्य को सङ्राम् महोत्सवो के लिए बिशेष लालायिंत देखकर राजा आहवमत्ल्वेव सोचने लगे ।

अलङ्करोत्यदूतसाहसाङ्कः सिंहासनं चेदयमेकवीरः ।
एतस्य सिँहॅमिंव राजलक्षर्मामङ्कांस्थितांकः क्षमर्तऽर्मर्योक्तुम् ।।२७।।

अन्वयः

 अयम् अद्भुतसाहसाङ्कः एकवीरः सिंहासनम् अलङ्करोति चेत् (तर्हि) एतस्य अङ्कस्थिता सिंहीम् इव राजलक्ष्मीम् अभियोक्तुं कः क्षमते ।