पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/१९७

एतत् पृष्ठम् परिष्कृतम् अस्ति

(१७१)


से स्वाभाविक रूप से बहने वाली नदी के समान हम दोनो के आश्रय में रहनेवाली राजलक्ष्मी समान रूप से चलती रहेगी ।

एवं विनिश्चित्य कृतप्रयत्न-मूचे कदाचित्पितरं प्रणम्य ।
सरस्वतीनूपुरसिञ्जितानां सहोदरेण ध्वनिना कुमारः ॥२८॥

अन्वय

 कुमारः कदाचित् एवं विनिश्चित्य कृतप्रयत्नं पितरं प्रणम्य सरस्वतीनू- पुरसिद्धितानां सहोदरेण ध्वनिना ऊँचे।

व्याख्या

 कुमारो विक्रमाङ्कदेवः कदाचित् कस्मिश्चित्काले एवं पूर्वोक्तप्रकारेण विनिश्चित्य निश्चय विधाय कृतः समारब्धः प्रयत्न उद्योगो येन तं पितर जनक- माहवमल्ल्देव प्रणम्य नमस्कृत्य सरस्वत्या वाग्देव्या नूपुराणां मञ्जीराणां पादांगुदं तुलाकोटि मंजीरो नूपुरेऽस्त्रियाम्' इत्यमरः । सिञ्जितानां स्वनानां सहोदरेण सदृशेन मधुरेणेत्यर्थः ध्वनिना शव्देन वचसा वा ऊचे जगाद । सुमधुर-कर्णप्रियशब्देन स्वपितर जगादेति भावः ।

भाषा

 किसी समय राज कुमारने, पूर्वोक्त निश्चय कर तदनुरूप कार्यं करने में प्रवृत्त अपने पिता आह्वमलदेव को, सरस्वती के पंजेब की ध्वनि के सदृश सुमधुर और कर्णप्रिय शब्दो मे कहा ।


आज्ञा शिरश्रुम्वति पार्थिवानां त्यागोपर्भोगेषु चशे स्थिता श्रीः ।
तव प्रसादात्सुलभं समस्त-मास्तामयं मे युवराजभावः ॥३०॥

अन्वयः

 आज्ञा पार्थिवानां शिरः चुम्वति, श्रीः त्यागोपर्भोगेषु वशे स्थिता, तव प्रसादात् समस्तं सुलभम् । मे युवराजभावः आस्ताम् ।

व्याख्या

 आज्ञा मदीयादेशः पार्थिवानां राज्ञा शिरः शीर्षे चुम्बतिसमाक्रामतिसर्वे राजानो ममाऽऽज्ञापालनं कुर्वन्तीति भावः ।श्रिधनादिसमृद्धिस्त्यागेषु दानेषु