( १७५ )
अन्वयः
तातस्य अयि भूयान् पक्षपात: (तातस्य) विंचारचातुर्यम् अपाकरोति । (तातस्य) ज्यैष्ठे तनूजै सोमदेवे सति मम यौवराज्ये अधिकार: न अस्ति ।
व्याख्या
तातस्य पितुर्मयि भूयानधिकः पक्षपातः स्नेहान्मदीषपक्षग्रहण तातस्य विचारस्य विवेकस्य चातुर्यं नैपुण्यमपाकरोति दूरीकरोति । अस्मिन्विषये भवदुक्तौ विवेकपुरस्सरविचारप्रावीण्य न दृश्यत इत्यर्थ । यतस्तातस्य ज्येष्ठे पुत्रे सोमदेवे तन्नामके प्रति विद्यमाने सति धर्मशास्त्रमर्यादया मम तस्मात् कनीयसो यौवराज्ये युवराजपदेऽधिकारो योग्यत्वमोचित्यञ्च इति न विद्यते ।
भाषा
आप का मेरे प्रति अधिक पक्षपात, आप की विवेकयुक्त विचार की पटुता को दूर कर रहा है। आप के ज्येष्ठ पुत्र सोमदेव के रहते हुए मेरा युवराज पद पाने का कोई अधिकार नहीं है ।
चालुक्यवंशोऽपि यदि प्रयाति पात्रत्वमाचारविपर्ययस्य ।
अहो महद्वैशसमा: किमन्य
दनङ्कुशोऽभूत्कलिकुञ्जरोऽयम् ॥३६॥
अन्वयः
यदि चालुक्यवशः अपि आचारविपर्ययस्य पात्रस्वं प्रयाति (तर्हि ) आः
किम् अन्यत्, अहो महत् वैशसम् , अयं कतिकुञ्जरः अनङ्कुशः अभूत् ।
व्याख्या
यदि चालुक्यस्य वश कुलमप्याडडचारो धर्मानुकलमर्यादा तस्य विपर्ययो वैपरीत्य तस्य पात्रस्व भाजनत्वं प्रयाति गच्छति तर्हि आ• ! इति खेदे । किमदन्यद्वस्तु । अहो ! इत्याश्चये । महद्वंशस स्यात् महदनर्थप्रयोजन स्यात् । "वंशस हिंसा"। अतोऽय कलिकुञ्जर कलिरूपहस्त्यनङ्कुशो निरकुंशो निष्प्रतिबन्धक इत्यर्थं । अभूज्जातः । मर्यादा त्यागे चालुक्यवश कलिकाल- पराभूत इत्यपवाद स्यादिति भाव ।
भाषा
यदि चालुक्यवरा भी अनाचार का स्थान बन गया तो बडे आश्चर्य और