पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/२०२

पुटमेतत् सुपुष्टितम्

( १७६ )


दुःख से कहना पड़ता है कि इतना बडा अनर्थ और क्या हो सकता है । यह कलि रूपी हाथी निरङकुश हो गया । अर्थात् अव कलि के प्रचार में कोई रोक टोक न रह गई ।

लक्ष्म्याः करं ग्राहयितुं तदादौ तातस्य योग्यः स्वयमग्रजो मे ।
कार्यं विपर्यासमलीमसेन न मे नृपश्रीपरिरम्भणेन ॥३७॥

अन्वयः

 तत् आदौ मे अग्रजः तातस्य लक्ष्म्याः करं ग्राहयितुं स्वयं योग्यः । विपर्यासमलीमसेन नृपश्रीपरिरम्भणेन मे न कार्यम् ।

व्याख्या

 तत्तस्मात्कारणात् धर्मानुकूलमर्यादानुरोधात् मे ममाऽग्रजो ज्येष्ठभ्राता तातस्य पितुस्तव लक्ष्म्याः श्रियः कर हस्त ग्राहयितु तातरूपप्रपोजककर्तृक ज्येष्ठभ्रातृप्रयोज्यकर्तृकलक्ष्मीसम्बन्धिकरग्रहण सम्पादयितुं स्वयमात्मना योग्य- स्समर्थ. । विपर्यासेन प्रातिकूल्येन वैपरीत्येन वा ‘स्याद्व्यत्यासो विपर्यासो व्यत्ययश्च विपर्यये' इत्यमरः। मलीमसेन कलङ्कितेन ‘मलीमस तु मलिन कञ्चरं मलदूषितम्' इत्यमरः। नृपश्रियो राजलक्ष्म्या, परिरम्भणेन समालिङ्गनेन ग्रहणेनेत्यर्थः । मे मम मन कार्यं न किंचित्प्रयोजनम् ।

भाषा

 इसलिये पहिले मेरे ज्येष्ठ भ्राता स्वय आप के राजश्री का हाथ पकडवाने के योग्य है । क्रमराहित्य के या प्रतिकूलता के कलङ्क से कलङ्कित राजलक्ष्मी को स्वीकार करने से मुझे कोई प्रयोजन नही है ।


ज्येष्ठं परिम्लानमुखं विधाय भवामि लक्ष्मीप्रणयोन्मुखश्चेत् ।
किमन्यदन्यायपरायणेन मयैव गोत्रे लिखितः कलङ्कः ॥३८॥

अन्वयः

 ज्येष्ठं परिम्लानमुखं विधाय (अहम्) लक्ष्मीप्रणयोन्मुखः भवामि चेत् (तर्हि) अन्यायपरायणेन मया एव गोत्रे कलङ्कः लिखितः, किम् अन्यत् ।