पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/२०५

पुटमेतत् सुपुष्टितम्

( १७९ )

भाषा

 इसलिए, है कुन्तलदेशाधिपति ! मेरे प्रति जो आपका अपकीर्तिजनक पक्षपात है उसे छोड दीजिये। क्या राजा साहेब (आप) नही देखते हैं कि में अनायास ही सब राज्य का सौख्य पा रहा हूँ ।

पुत्राद्वचः श्रोत्रषवित्रमेवं श्रुत्वा चमत्कारमगान्नरेन्द्रः ।
इयं हि लक्ष्मीर्धुरि पांसुलानां कैषां न चेतः कलुषीकरोति ॥४२॥

अन्वयः

 नरेन्द्रः पुत्रात् एवं श्रोत्रपवित्रं वचः श्रुत्वा चमत्कारम् अगात्। हि पांसुलानां धुरि (स्थिता) इयं लक्ष्मी केयां चेतः न कलुषीकरोति ।

व्याख्या

 नरेन्द्रो राजऽऽहवमल्लदेवः पुत्रास्सूनोर्विक्रमाङ्कदेवादेवमेवम्भूतं श्रोत्रपवित्रं कर्णपूतं कर्णसुखदायकमित्यर्थः। वचो वाणं श्रुत्वा निशम्य चमत्कारमाश्चर्य मगात्प्राप्तः आश्चर्यचकितो बभूवेत्यर्थः । हि यस्मात्कारणात् पांतुलानां स्वैरि- णोनां धुरि अग्रभागे स्थितेयं लक्ष्मीः श्रीः सम्पत्तिरित्यर्थः । केषां पुरुषाणां चेतो भनः 'चित्तं तु चेतो हृदयं स्वान्त हृन्मानसं मनः' इत्यमरः । न कलुषी करोति न मलिनोकरोति । अपि तु लक्ष्मीः सर्वानेव सन्मार्गाच्च्यावयतीति भावः ।

भाषा

 इस प्रकार पुत्र की कर्ण को पवित्र करने वाली अर्थात् कान को अच्छी लगने वाली वाणी को सुनकर राजा को आश्चर्य हुआ । क्यों कि स्वेच्छा चारिणियों में अग्रणी लक्ष्मी किनके चित्तो को मलिन नही करदेती । अर्थात लक्ष्मी की प्राप्ति में सभी मनुष्यों का मन कलुषीत हो जाता है ।

सस्नेहमङ्के विनिवेश्य चैन-मुवाच रोमाश्चतरङ्गिताङ्गः ।
क्षिपन्निवात्युज्ज्वलदन्तकान्त्या प्रसादमुक्तावलिमस्य कण्ठे ४३॥

अन्वयः

 रोमाञ्चतरङ्गिताङ्गः एनम् अङ्के सस्नेहं विनिवेश्य अस्य कण्ठे अत्युज्ज्व लदन्तकान्त्या प्रसादमुक्तावलि क्षिपन् इव च उवाच ।