पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/२०९

एतत् पृष्ठम् परिष्कृतम् अस्ति

( १८४ )


 कैसे दृढता पूर्वक बाधी जा सकती है अर्थात् बिना बँधे कैसे अपनी चञ्चलता छोड कर साथ रह सकते है ।

किञ्चिन मे दूषणमस्ति पृच्छ दैवज्ञचकं यदि कौतुकं ते ।
एतस्य साम्राज्यममन्यमानाः पापग्रहा एव गृहीतपापाः ॥४८।।

अन्वयः

 में न किञ्चित् दूषणम् अस्ति । यदिते कौतुकं (तर्हि) दैवज्ञचक्रं पृच्छ । पापग्रहाः एव गृहीतपापाः(सन्तः)एतस्य साम्राज्यम् अमन्य- मानाः (सन्ति) ।

व्याख्या

 मे ममाऽत्र न किञ्चिदूषण न कोऽपि दोषोऽस्ति । नाऽह सोमदेवस्य पौवराज्यदानप्रतिबन्धक इति भाव । यदि ते तव कौतुक कुतूहलम 'कौतूहल कौतुकञ्च कुतुकञ्च कुतूहलम्' इत्यमर । ज्ञातु महती समुत्कण्ठा भवेदित्यर्थं । तर्हि दैव जानन्तीति दैवज्ञा ज्योतिषिका 'सायत्सरो ज्योतिषिको देवज्ञगणकावापि' इत्यमर । तेषां चक्र समूह पृच्छ । पापग्रहा क्रूरग्रहा अनिष्टग्रहा इत्यर्थ । गृहीतानि पापानि दुष्कृतजन्यादृष्टानि यैस्ते गृहीतपापा सन्त एतस्य सोमदेवस्य साम्राज्य सम्राट्पदेऽधिरोहममन्यमाना सन्ति न स्वकुर्वन्ति न समर्थयन्तीति भावः ।

भाषा

 सोमदेव को युवराज न बनाने में मेरा कोई दोष नही है । यदि तुमको यह जानने की उत्कट इच्छा हो तो ज्योतिषियो से पूछो । (तब तुमको विदित होगा कि) सोमदेव के पापग्रह अनिष्ट कारक होकर इसका साम्राज्य होने में प्रतिबंधक है ।

साम्राज्यलक्ष्मीदयितं जगाद वामेव देवोऽपि मृगाङ्कमौलिः ।
लोकस्तुतां मे वहुपुत्रतां तु पुत्रद्वयेन व्यतनोत्परेण ५०॥

अन्वयः

 मृगाङ्कमौलिः देवः अपि त्वाम् एव साम्राज्यलक्ष्मीदयितं जगाद । लोकस्तुता मे वहुपुत्रता तु परेण पुत्रद्वयेन व्यतनोत् ।