पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/२१०

एतत् पृष्ठम् परिष्कृतम् अस्ति

( १८५ )

व्याख्या

 मृगङ्कश्चन्द्रः ‘तन्नो जैवातुकः सोमो ग्लौर्मृगाङ्कः कलानिधिः' इत्यमरः । मौली मस्तके यस्य स मृगङ्कमौलिश्चन्द्रमौलिर्देव शिवोऽपि त्वामेव भवन्तमेव साम्राज्यलक्ष्म्याः साम्राज्यश्रियो दवित वल्लभं 'दयित वल्लभं प्रियम्' इत्यमरः। जगादोवाच कथितवानित्यर्थः । लोकर्जनै. स्तुता प्रशसितां जनप्रसिद्धामित्यर्थः। मे मम बहुपुत्रतामनेकतनयत्वं तु परेण त्वदतिरिसक्तेन पुत्रद्वयेन व्यतनोत् कृतवान् ।

भाषा


 भगवान् शङ्कर ने भी तुम्ही को साम्राज्यलक्ष्मी का प्रिय बताया था । संसार में प्रशसित अनेक पुत्रवता को शकर ने मुझे अन्य दो पुत्रों को देकर पूर्ण कर दिया ।

तन्मे प्रमाणोकुरु वत्स वाक्यं चालुक्यलक्ष्मीश्चिरमुन्नतास्तु ।
निर्मत्सराः क्षोणिभृतः स्तुवन्तु ममाकलङ्कं गुण्पक्षपातम् ५१॥

अन्वयः

 हे वत्स ! तत् मे वाक्यं प्रमाणीकुरु। चालुक्यलक्ष्मीः चिरा उन्नता अस्तु । निर्मत्सराः क्षोणिभृतः मम अकलङ्कं गुणपक्षपातं स्तुवन्तु

व्याख्या

 हे वत्स पुत्र तत्तस्मात्कारणात्मे मम वाक्य वचनं प्रमाणीकुरु स्वीकुरुः यौवराज्य गृहाणेत्यर्थे । चालुक्यदशस्य लक्ष्मी राज्यश्रीश्चिर चिरकाल मुन्नता बुद्धिमभ्युपेताऽस्तु । मत्सरेणाऽन्यशुभद्वेषेण परसम्पत्यराहनेनैत्यर्थं ‘मत्सरोऽयशुभद्वेये तद्वकृपणयोस्त्रिषुइत्यमर रहिता हीनाः क्षोणिः राजत्सरे ममाङ्कलक दोषरहित गुणेयु शौर्यादिषु पक्षपात गुणैकरायनित्यः स्तुवन्तु प्रशसन्तु।

भाषा

 हे पुत्र ) इसलिये मेरी बात को मानो अर्थात् युवराज पद को करो (जिससे) चालुक्यवंश की राज्यलक्ष्मी चिरकाल तक उन्नत मात्सर्यहीन अन्य राजा लोग मेरे अभिन्दनीय, गुण के पक्षपात की प्रशंसा