पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/२११

एतत् पृष्ठम् परिष्कृतम् अस्ति

( १८६ )

श्रुत्वेति वाक्यं पितुरादरेण जगाद भूयो विहसन्कुमारः ।
मद्भाग्यदोषेण दुराग्रहोऽयं तातस्य मत्कीर्तिंकलङ्कहेतुः ॥५२॥

अन्वयः

 कुमारः पितुः इति वाक्यम् आदरेण श्रुत्वा विहसन् ( सन ) भूयः जगाद । अयं तातस्य दुराप्रहः मद्भाग्यदोषेण मत्कीर्तिकलङ्कहेतुः (अस्ति)

व्याख्या

 कुमारो राजकुमारो विक्रमाङ्कदेवः पितुर्जनकस्यऽऽहवमल्लदेवस्येयतीत्थं वाक्यं वचनमादरेण समादरेण श्रुत्वा निशम्य बिहसन् हास्यं कुर्बन्सन् भूयः पुनरपि जगादोक्तवान् । अयं पूज्यतः तातस्य जनकस्य भवतो दुराप्रहो दुरभिनिवेशो मह्नां राज्यलक्ष्मीसमर्पणरूपाभिनिवेशो मम भाग्यस्य दिष्टस्य 'दैवं दिष्टं भागधेयं भाग्यं स्त्री नियतिवधिः' इत्यमरः । दोषेण विपर्यासेन मम कोर्तेर्यशसः कलङ्कस्य मलिनोकरणस्य हेतुः कारणमस्ति । सस्यपि ज्येष्ठे भ्रातरि मम दुर्भाग्यजनितेन भवतो दुराग्रहेण मे यौवराज्यग्रहणं मत्कीर्तिमलिनीकरणकारणमेव भविष्यतीति भावः ।

भाषा

 राजा की उपर्युक्त बातो को आदर पूर्वक सुनकर राजकुमार विक्रमाङ्कदेव ने हंसते हुए फिर से कहा कि यह पिता जी का दुराग्रह, मेरे दुर्भाग्य से, मेरी कीर्ति में कलङ्क लगने का कारण है।

यदि ग्रहास्तस्य न राज्यदूताः कारुण्यशून्यः शशिशेखरो वा।
तैरेव तातो भविता कृतार्थस्तद्वार्यतां कीर्तिविषयं मे ॥५३॥

अन्वयः

 यदि तस्य प्रहाः राज्यदूताः न, घा शशिशेखरः कारुण्यशून्यः (तथापि) तैः एव तातः कृतार्थः भविता । तत् मे कीर्तिविपर्ययः चार्यताम् ।

व्याख्या

 यदि तस्य सोमदेवस्य प्रहा जन्माङ्गस्थितग्राहाः 'ग्रहो निग्रहनिर्बन्धग्रहणेषु रणोद्यमे । सूर्यादौ पूतनादौ च सेहिबेयोपरागयोः' इति विश्यः । राज्यस्य