पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/२१७

एतत् पृष्ठम् परिष्कृतम् अस्ति

( १९२ )

मूतनि पीयूपाणि तानि च पपौ पिबति स्म । युद्धे सर्वत्र विजयप्राप्त्या तदीपकोतर्ति निशम्य परमतृप्तोऽभूदिति भावः । अत्र जपस्य अमृतत्वेन रूपकं शब्दोपात्तं, यशसि च पुष्पारोपोऽर्थलभ्य इति एकदेशवियति-रूपकमलङ्कारः ।

भाषा

 राजा आहवमल्लदेव सर्वत्र सग्रामोत्सवो में आज्ञाकारी विक्रमाङ्कदेव को ही जाने की आज्ञा देता था और उसके द्वारा उपार्जित यश से सुशोभित विजयरुपी अमृतो का पान किया करता था ।

तत्कुम्भिकुम्भस्थलचीनपिष्टविपाटलो वारिनिधिर्बभासे ।
आपूरितश्चोलबलक्षयोत्थ-रक्तापगानामिव मण्डलेन ॥६१॥

अन्वयः

 तत्कुम्भिकुम्भस्थलचीनपिष्टविपाटलः वारिनिधिः चोलबलक्षयोत्थर-क्तापगानां मण्डलेन आपूरितः इव बभासे ।

व्याख़्य।

 तस्य विक्रमान्कदेवस्य कुम्भिनो दन्तिनस्तेषां i कुम्भस्थलानि गण्डस्थलानि तेषु यञ्चीनपिष्ट चीनदेशभवं चूर्णं सिन्दूरं तेन विपाटलो रक्तवर्णो वारिनिधिर्जल-निधिस्समुद्रश्चोलाना चलनृपाणां बलं सैन्यं 'बरूथिनी बलं सैन्यं चक्रे चानीक-मस्त्रियाम्' इत्यमरः । तेषां क्षपेण नाशेनोत्या जाता रक्तस्य रुधिरस्याऽऽपगा नद्यः "अपां समूहो आपं तेन गच्छतीत्यापगा' । समूहे अणू" । तासां मण्डलेन समूहेनाऽऽपूरितस्संवलित इव बभासे धुर्ति संप्राप । लोके सिन्दुरेण गजगण्डस्थलानि शोभायै लिप्यन्ते । उत्प्रेक्षालङ्कारः ।

भाषा

 वैक्रमान्कदेव के हाथियों के गण्डस्थलो पर लगाये हुए सिन्दूर से सिन्दुरिया रंग का समुद्र मातो चोलदेशीय राजाओ की सेना के काटे जाने से उत्पन्न खून की नदियो के समूह से भरा भासित होता था ।

चालुक्यरामे हरिवाहिनीभिः सहागते तत्र तट पयोधिः ।
प्रादुर्भवन्मौक्तिकशुक्तिभद्य भयेन दन्तानिय निश्चकर्ष ॥६२॥