पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/२३०

एतत् पृष्ठम् परिष्कृतम् अस्ति

(२०८)

व्याख्या

 तस्य विक्रमाङ्कदेवस्य मदो दानमस्त्येषु ते मदा मदयुक्ताः 'अर्श आदिभ्यो जित्यच् प्रत्ययः । स्तम्येरमा गजाः 'इभः स्तयेरमः पद्मि' इत्यमरः । तैर्मदोन्मत गजैर्मॅलये मलयपर्वते न सन्ति द्रुमा अस्मिन्निति निर्द्रुम: न निर्द्रुमोऽनिर्द्रुम:, अनिर्द्रुमो निर्द्रुम: वृत इति निर्द्रुमोकृतस्तस्मिन् 'अभूततद्भावे संपद्यकर्तरि च्विरिति च्विः प्रत्यय' । भक्षणाद्भञ्जनाच्च वृक्षरहिते कृते सति चन्दनवायूनां चन्दनद्रुमसम्पर्काच्छीतलसुगन्धिपवनानां दक्षिणानिलानामित्यर्थः । अक्षयम- विनाशि चिरकालसभवीत्यर्थः । दुर्भिक्षमभावोऽभूदित्यहं मन्ये तर्कयामि । अत्रोत्त्प्रेक्षालङ्कारः ।

भाषा

 उसके मदोन्मत्त हाथियो द्वारा मलयाचल का, वृक्षों को तोडने ओर खाने से, वृक्ष रहित कर दिये जाने पर चिरकाल के लिये तरु, मन्द, सुगन्ध वायु का (दक्षिणानिल का} अकाल पड गया होगा ऐसा मे समझता हूँ ।


चन्दनस्यन्दिडिण्डीरच्छलेन मलयाचलः ।
पिण्डं श्रीखण्डवृक्षाणां परोक्षाणामिवाकरोत् ॥।४॥

अन्वयः

 मलयाचलः चन्दनस्यन्दिडिण्डीरच्छलेन परोक्षाणां श्रीखण्डवृक्षाणां पिण्डम् इव अकरोत् ।

व्याख्या

 मलयाचलो मलयाद्रिश्चन्दनाच्चन्दनवृक्षारस्यन्दी प्रच्युतो डिण्डोरः फेनः । '{डण्डीरोऽधिकफः फेनः' इत्यमरः । तस्य च्छलेन व्याजेन परोक्षाणां भग्नानामत एव परलोकगतानां श्रीखण्डवृक्षाणां चन्दनतरूण पिण्डमिव श्राद्धपिण्डमिवाऽ करोत् कृतवान् । मृतेभ्यः सम्बन्धिभिः पिण्डदानं क्रियते तथैव मलयाचलः स्योत्पनानां सम्प्रतिति नष्टानां चन्दनवृक्षाणा चन्दनस्यन्दिफेनव्याजेन पिण्डदानं कृतवानित्यर्थः

भाषा

 मलयाचल में टूटे हुए चन्दत वृक्षो से चूने वाले (सफेद) फेनो के मिष से मानो मरे हुए अर्थात् नष्ट भए हुए चन्दन-वृक्षो का पिण्डदान किया ।