पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/२३१

एतत् पृष्ठम् परिष्कृतम् अस्ति

( २०१ )


सान्द्रचन्दननिस्यन्दपङ्किलैस्तस्य वारणैः ।
क्षणमौर्वाग्निसन्तापः प्रविश्य शमितोऽम्बुधे:


अन्वयः

 सान्द्रचन्दननिस्यन्दपङ्किलैः वारणैः प्रविश्य अम्बुवे: और्वाग्निसन्तापःक्षणं शमितः ।

व्याख्या

 सान्द्रो घनीभूतो यश्चन्दनस्य श्रीखण्डवृक्षस्य निस्यन्दः प्रस्रुतो द्रवीभूत पदार्थस्तेन पङ्किलैश्चन्दनवृक्षसंघर्षवशादार्द्रशरीरैर्वारणैर्गजै. प्रविश्य समुद्रमध्ये जलक्रीडार्थं गत्वाऽम्बुधैः समुद्रस्यौर्वोग्निरौर्वाग्निर्वडवाग्निस्तस्मात्सन्तापः पीडा क्षणं क्षणमात्र शमितः शान्तिं भीतः । 'और्वस्तु वाडवो वडवानलः' इत्यमरः । तस्य 'शोतचन्दनस्यन्दलिप्ताङ्गेषु गजेषु समुद्र प्रविष्टेषु समुद्रस्य वडवानलतापः क्षणं शान्तिं गत इति भावः । गम्योत्प्रेक्षालङ्कार ।

भाषा


 (अपने शरीर को चन्दनवृक्षों से रगडने के कारण) गाढे २ चन्दन के रस से लथपथ उसके हाथियो ने समुद्र में स्नानादि क्रीड़ा के लिए प्रवेश कर (चन्दन की ठण्डक से) समुद्र की वडवानल की गर्मी को थोड़े देर के लिये शान्त फर दिया।

और्वाग्नितप्तपाथोधौ चन्दनस्यन्दवासिताः ।
शीतोपचारसाम्राज्यं भेजुर्मलयनिम्नगाः ॥६॥


अन्वयः

 चन्दनस्यन्दवासिताः मलयनिम्नगाः और्वाग्नितप्तपाथोधौ शीतोपचार साम्राज्यं भेजुः ।


व्याख्या

 चन्दनस्य श्रीखण्डयुक्षस्य स्यन्देन प्रस्रुतजलेन वासिताः सुगन्धित्वमापन्ना मलयस्य मलयाद्रेर्निम्नगा नद्यः 'स्रोतस्यिनी द्वीपवती स्रवतो निम्नगापगा' इत्यमरः । और्वाग्निना वडवानलेन तप्त उष्णता प्रापितः पायोधिस्समुद्रस्त १४