पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/२३३

एतत् पृष्ठम् परिष्कृतम् अस्ति

( २११ )


व्याख्या

 व्व्व्मलयेन मलयटाचलेन तस्य विक्रमाङ्कदेवस्येमा इति तदीयाः स्त्रियो नार्यंस्तासां सुरभीणि सुगन्धीनि सुरभिर्घ्राणतर्पण । इष्टगन्धः सुगन्थिः स्यात्' इत्यमरः । श्वसितान्पेयाऽनिलास्तैस्तदीयाङ्गनासुगन्धिश्वसितानिलैर्गुहा दर्पश्चन्दनवायुनां औषण्डानिलाना बीजार्थं बीजसंरक्षणाय पूरिता इव परिपूर्णाकृता इव । गजकृतसमस्तचन्दनवृक्षनाशेऽपि आगामिनि समये कान्तासुरभिश्वसितरूपबीजैः प्रभूताश्चन्दनवायवस्समुत्पत्स्यन्तीति धिया मलयेन तासां श्वसितानां गुहासु बीजरूपेण संग्रहः कृत इति भावः श्वसितानिलैगृर्हपरिपूरणे चन्दनवायुरूप• बीजसंरक्षणस्य फलत्वेनोत्प्रेक्षणात्फलोत्प्रेक्षा तया च तवीयाङ्गनानां श्वसिताऽ निलैस्सह मलयपवनानाममुपमा गम्यते

भाषा

 मलयायल ने, विक्रमाङ्कदेव से हाथियों द्वारा चन्दन वृक्षो का समूल नाश कर दिये जाने पर, चन्दन की सुगन्ध से युक्त वायुओ का बीज बनाए रखने के लिये मानो विक्रमाङ्कदेव की सेना में की अङ्गनाओं के सुगन्धित सासो को गुफाओं में भर लिया।


गजोन्मूलितनिक्षिप्त-चन्दनद्रुमसम्पदः ।
स मूल्यमिव रत्नानि जग्राह महतोऽम्बुधेः ॥६॥


अन्वयः


 सः गजोन्मूलितनिक्षिप्तचन्दनद्रुमसम्पदः महत्तः । अम्बुधेः रत्न्नानि मूल्यम् इयं जगाद ।

व्याख्या

 स विक्रमाङ्कदेवो गजैर्हस्तिभिः पूर्वमुल्मुलिता उत्पाटिता पशिक्षितास्तं पातितश्चन्दनद्रुमास्तदूपसम्पदो यस्मिन् स नागसमूहोत्पाटिंतसंपातितचन्दनमही यूहरूपसम्पत्तेर्महतोऽभ्युपैर्महासागरात् महासागरसकाशादित्यर्थः । रत्नानि समुद्रस्थितविविधरत्नसमूहान् मूल्यमिव दृप्तचन्दनद्रुमसम्पत्तेर्मूल्यार्थमिव जग्राह गृहीतवान् । परिवृतिनामालङ्कारः। ‘परिवृत्तिर्विनिमयः समन्यूनाधि कैर्भवत्’ इति लक्षणात् ।