( २१३ )
स्सन्निव क्रुद्धस्सन्निव क्षोभ व्याकुलत्वमाययौ प्राप्त । समुद्रक्षोभं सेनाकलकल- श्रवणस्य हेतुत्वेनोत्प्रेक्षणादुत्प्रेक्षालङ्कार ।
भाषा
लक्ष्मीपति भगवान् विष्णु की निद्रा का भङ्ग करने वाले सेना के कोलाहल सै मानो समुद्र कुपित होकर क्षुब्ध हो उठा ।
क्षुएणास्तत्करिभिस्तोयद्विपाङ्घ्रिनिगडोपमाः । |
अन्वयः
वार्धितीरे तोयद्विपाङ्घ्रिनिंगडोपमाः कुण्डलीभूय शयानाः महोरगाः तकरिभिः क्षुण्णाः ।
व्याख्या
वार्धे समुद्रस्य तीरे तट समुद्रतटे तोयस्य जलस्थ द्विपा गजास्तेषामङ्घ्रय पादास्तेषा निगडाना शृखलानामुपमा सादृश्य येषां ते समुद्गजनिगडोपमा 'अथ श्रृङ्खले । अन्दुको निगडोऽस्त्री स्यात्' इत्यमरः कुण्डलीभूय मण्डलाकारेण कुण्डलना विधाय शयाना सुप्ता महोरगा उरसः गच्छन्तीत्युरगा महान्त उरगा महोरगा महासर्पार्स्तस्य विक्रमाङ्कदेवस्य करिभिर्हस्तिभि क्षुण्णः गजपादै सम्मदिता’ । समुद्रतटे सर्पाणामाधिक्य स्वाभाविकमेव । अत्रोपमालङ्कारः ।
भाषा
समुद्र तट पर जलहाथियो के पाव में बाधने के सिक्कंड के सदृश मण्डल बाँद कर सोए हुए बड़े २ साप, उस राजा के हाथियो से कुचल दिये गए ।
दधिरे तद्गजाः पाद-लग्नपाथोधिमौक्तिकाः । |
अन्वयः
पादलग्नपाथोधिमौक्तिकाः तद्रजाः क्षुण्णनक्षत्रपुञ्जस्य सुरदन्तिनः सौन्दर्यं दधिरे ।