पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/२३८

एतत् पृष्ठम् परिष्कृतम् अस्ति

( २१४ )

व्याख्या

  पादेषु पदेषु लग्नानि संसवतानि पाथोयेः समुद्रस्य मौक्तिकानि येषां ते चरणसंसक्तमुक्ताकलापास्तस्य विक्रमाङ्कवेयस्य गजा हस्तिनः कृष्णः पादसम्बन्धेन सचूर्णितो नक्षत्रपुञ्जो तारकासमूहो येन तस्य ‘‘नक्षत्रामृक्ष भं तारा तारकाप्युडु वा स्त्रियाम् इत्यमरः । सुरदन्तिन ऐरावतस्य सौन्दर्यं शोभा दधिरे संप्राप्ताः। निदर्शनालङ्कारः ।

भाषा

उसके हाथी, जिनके पावो में समुद्र के मोती लगा गये थे, नक्षत्र समूहो को कुचलेने वाले इन्द्र के ऐरावत हाथी की शोभा प्राप्त कर रहे थे ।

तस्य वाहनमेकैकं गाहमानममन्यत ।
मन्दुरास्मरणायातमुच्चैःश्रवसम्बुधिः ॥१४॥

अन्वयः

 अम्बुधिः तस्य गाहमानम् एकैकं वाहनं मन्दुरास्मरणायात्तम् उच्चैः श्रवसम् अमन्यत ।

व्याख्या

 अम्बुधि. समुद्रः तस्य विक्रमाङ्कदेवस्य गाहमान समुद्रं प्रविशन्तमेकैकमश्वं प्रत्येकं वाजिनं मन्दुरा वाजिशाला ‘वाजिशाला तु मन्दुरा’ इस्यमरः । तस्याः स्मरणेनाऽऽयातं मदीया वाजिशाला समुद्रेऽवतिष्ठत इति स्मृत्या समागतमुच्चै धरामिन्द्राश्वममन्यत मेने । तस्य वाजिनोऽतीव श्रेष्ठा इति भावः । समुद्रा देवोच्चै श्रवस उत्पत्तिरिति पौराणिकी कथाऽत्र सूचिता ।

भाषा

समद्र ने, समुद्र में स्नान करने वाले उसके हर एक घोडे को, अपनी अश्व शाला का स्मरण कर आया हुआ उच्चै श्रवा नाम का इन्द्र का घोडा ही समझा । अर्थात् उसको हर एक घोडा, उच्चैश्रवा के ऐसा ही था । उच्चै श्रवा नामक इन्द्र के घोड़े की उत्पति समुद्र में से ही हुई है।

तद्दन्तिपदसंघट्ट-त्रुटन्मौक्तिकयुक्तिकः ।
चक्रेऽम्बधिर्भयोद्भ्रान्त-हृदयस्फुटनभ्रमम् ॥१५॥