पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/२४०

एतत् पृष्ठम् परिष्कृतम् अस्ति

( २१५ )

भाषा

 विक्रमाङ्कदेव के हाथियो के, समुद्र के भीतर घुस कर उसका मन्थन करने रो, घबड़ा कर उनके दाँतो में लपटे हुए सर्पो से ऐसा प्रकट होता था मानों हाथियो ने समुद्र की अतड़ियाँ खीच ली हो ।


तद्भयात्सिहलद्वीप-भूपतिः शरणागतः ।
विशश्रामाश्रमपदे लोपामुद्रापतेर्मुनेः

अन्वयः

तद्भयात् शरणागतः सिंहलद्वीपभूपतिः लोपामुद्रापतेः मुनेः आश्रमपदे विशश्राम ।

व्याख्या

तस्माद्विक्रमादित्याद्भय भीतिस्तस्माच्छरणमागतो रक्षायं तत्समयेसमुपस्थितः सिंहलद्वीपस्य सीलोननाम्ना प्रसिद्धस्य द्वीपस्य भूपतिनृपतिर्लोपामुद्रया अगस्त्यपत्न्याः पतेर्मुनेरगस्त्यस्य 'अगस्त्यः कुम्भसम्भवः । मैत्रावरुणिरस्यैव लोपामुद्रा सधर्मिणी इत्यमरः । आश्रमपदे विशश्राम विश्रान्तिमाजगाम । सिंहलद्वीपस्याऽपि युद्धं विना विजयोऽनेन क्रत इति भावः । अगस्त्याश्रमप्राप्त्या तस्य तापसाश्रमस्वीकारोऽपि सूचितः ।

भाषा

 उसके भय से शरण में आया हुआ सीलोन का राजा, अगस्त्यमुनि के आश्रम में विश्राम करने लगा अर्थात् राजपाट छोडकर तपस्या करने लगा ।

धुनानेन धनुश्चित्रं कृतास्तेन मुखेन्दवः।
गाङ्क्तुरण्डपुरस्त्रीणां गलत्कुण्डलमण्डलाः

अन्वयः

धनुः धुनानेन तेन गाङ्कुडपुरस्त्रीणां मुखेन्दवः गलत्कुण्डलमण्डलाः क्र्ताः (इति) चित्रम् ।