पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/२४१

एतत् पृष्ठम् परिष्कृतम् अस्ति

( २१९ )

व्याख्या

धनुश्चापं भुननेन संचालपता टङ्कारयिता वा तेन विक्रमाङ्कदेवेन 'गाङ्ग कुण्डस्य गाङ्गकुण्डचोलपुरनासकस्य पुरस्य नगरस्य स्त्रीणां ललनानां मुखेन्दव आननचन्द्रा गलन्ति भूमौ पतन्ति कुण्डलमण्डलानि कर्णभूषणसमूहा येभ्यस्ते स्रस्तोन्तंससमूहाः कृता विरचिता इति चित्रमाश्चयंकरम् । गाङ्गकुण्ड-चोलपुरस्य विजयः कृतस्तेन युद्धे मृतानां पतीनां माशांत् स्त्रीणामाभूषणत्यागः संजात इति भावः।अथवा कर्णपीडकेन भयंकरघनुष्ट्ङ्कारेण पूरितानां कर्णानां कम्पना तद्गतभूषणपतनं जातमिति भावः । अनधनु कम्पनेन कुण्डलानां निपत- नोक्त्याऽसङ्गत्यलङ्कारः । "कार्यकारणयोर्भिन्नदेशतायामसङ्गप्तिः” इति लक्षणात् ।

भाषा

उसकै धनुष की टङ्कार करते रहने से गङ्गकुण्ड चोलपुर की स्त्रियो के मुखचन्द्र, वान के आभूषणो से रहित हो गए, वह एक आश्चर्य की बात है । अर्थात् धनुष के कर्ण के लिये असह्य टङ्कारो से सात या पर्दा फटने लगने से चानो को जोर से हिलाने पर, उनमें के आभूषण गिर गए । अथवा पतिमरण से आभूषण धारण करना बन्द हो गया ।

यशःकूर्चिकया चित्रं दिग्भित्तिषु निविष्टया ।
द्रविडीगण्डफलके तेनावर्त्यत पाण्डिमा ॥२२॥

अन्वयः

तेन दिग्भित्तिषु निविष्टया यशःकूर्चिकया द्रविडीगण्डफलके पाण्डिमा अवर्त्यत इति चित्रम् ।

व्याख्या

तेन कुमारेण विक्रमाङ्कदैवेन दिश एव भितथस्तासु निविष्टया सप्रापितया यशसः स्वकीर्तेः कूचिका यशोस्पश्येतोकरणद्रवपदायंस्य लेपनयन्त्रं तया द्रविडीनां द्रविडाङ्गनानां गण्डफलके कपोलस्थले पाण्डिमा शुचलत्वमयत्यंत प्रावस्यंत शुक्लत्वं कृतमिपर्युः । इति चिश्रमाश्चर्यकरम् । पतिमरणात् खेदात्

१ राजेन्द्र घोल (गर्गशोण्ड) निर्मापिता चोलराजधाणनी । कावेरीनद्यास्तटं विद्यमानाऽsसीत् । सम्प्रति गङगकुण्ड्चोलपुरनाम्ना प्रसिद्धा ।