पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/२५२

एतत् पृष्ठम् परिष्कृतम् अस्ति

( २३१ )


स्वरूपराजभक्तानां ककुभां दिशां दिशो दिगङ्गनाः प्रतीत्यर्थः । 'दिशस्तु ककुभः काष्ठा आशाश्च हरितश्च ताः इत्यमरः । अत्यन्तत्वरितैरत्यन्तशीघ्रगामिभिः पदैश्चरणैर्विद्रवन्तमिव धावन्तमिवाऽऽभान्तं भासमानम् (दूतं पप्रच्छ ।)

भाषा

 राजा की खबर पूछने वाली, अपने स्वामी की भक्त दिशाओ की तरफ अत्यन्त वेग से भाग चलने वाले (दूत को देखा ।)

अनर्थवार्तावहन-महापातकदूषितम् ।
गणयित्वेव धैर्येण सर्वथापि निराकृतम् ।।४१।।

अन्वयः

 अनर्थवार्तावहनमहापातकदूषितं गणयित्वा इव सर्वथा अपि धैर्येण निराकृतं (दूतं पप्रच्छ ।

व्याख्या

 अनर्थवार्ताया अनिष्टवृत्तान्तस्य वहनेन प्रापणेन धारणेन या यन्महापातकं महापापं तेन दूषितं कलुश्तिहृदयं गणयित्वेव विदित्वेव धैर्येण धीरतया कर्ता सर्वथाऽपि सर्वप्रकारेणाऽपि निराकृतं परित्यक्तं (दूतं पप्रच्छ ) अनिष्टवृत्तान्तधारण महापापयेनं विगणय्य धैर्येणाऽपि त्यक्तसङ्गमित्यर्थः । अत्रोत्प्रेक्षालङ्कारः

भाषा

 अशुभ वार्ता को धारण करने के पाप से मानो दूषित समझ कर धैर्य से एकदम परित्यक्त अर्थात् अधीर (दूतको पूछा।) ।

कृतप्रणाममासन्नमथ तं राजनन्दनः ।
कुशलं तातपादानामिति पप्रच्छ वत्सलः ।।४२।।

अन्वयः

 अथ वत्सलः राजनन्दनः आसनं कृतप्रणामं तं तातपादानां युन्शलम् इति पप्रच्छ ।