पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/२५४

एतत् पृष्ठम् परिष्कृतम् अस्ति

( २३३ )


अन्वयः

 हे कुमार आरमानं दृढं विदेहि धीरतां मा अवधीरया एषः दुर्वार्ता- प्रलयाम्बुदः व्यापिपर्ति ।

व्याख्या

 हे कुमार ! हे राजकुमार विक्रमाङ्कदेव । आत्मानं स्वं वृद्धं निश्चलं विधेहि कुरु । धीरतां धैर्यं माऽवधीरय मा तिरस्कुरु । एष अग्रे कथनीयो दुर्वात्तरूिपोऽमङ्गल्यवृत्तान्तरूपः प्रलयाम्बुदः प्रलयकालिकमेघो व्यापिपर्ति व्यापारं करोति । प्रलयकलिकमेघजन्यकष्टसभां कष्टप्रदां वार्ता श्रीतुं धैर्ययुक्तो भवेति भावः ।

भाषा

 हे राजकुमार ! विक्रमाङ्कदेव ! अपने को कड़ा बनालो। धैर्य मत छोड़ो । आगे कहा जाने वाला बुरा वृत्तान्त रूप प्रलयकाल का मेघ अब व्यापार करने जा रहा है। अर्थात् प्रलयकाल के मेघ से होने वाले कष्ट के समान कष्ट देने वाली दुखद वार्ता अब मै सुनाने जा रहा हूं। इसलिये दृढ़ होकर धैर्य से सुनो।


आपाण्डुपाण्ड्यमालल-चोलमाक्रान्तसिंहलम् ।
देवस्त्वद्विजयं श्रुत्वा भेजे सुखमयीं स्थितिम् ।।७५।।

अन्वय:

 देवः आपाण्डुपाण्ड्यम् आलोलचोलम् आक्रान्तसिंहलं त्वद्विजयं । श्रुत्वा सुखमयीं स्थिति भेजे।

व्याख्या

 देवो राजाऽऽहवमल्लदेव पण्डुरासमन्तात्पाण्डुः पाण्डुरः 'हरिणः पाण्डुरः पाण्डुः' इत्यमरः) पाण्ड्यः पाण्ड्यभूपो येन तमासमन्ताल्लोलश्चलश्चोलदेशभूपो येन समाक्रान्तः सिंहल. सिंहलद्वीपो येन सं तद् भवतो विजयं दिग्विजयं शृत्वाऽऽ सुखमयी सुखंकानुभवभूतां स्थितिमवस्थां भेजे प्राप ।