पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/२६३

एतत् पृष्ठम् परिष्कृतम् अस्ति

( २४४ )


 नान्तरं गत्वा तत्र किञ्चिद्विश्रम्य पुनः प्रस्थानैस्तां दक्षिणप्रदेशस्य दक्षिणप्रदेशस्यजान्हवी गङ्गां तुङ्गभद्रानधीमद्राक्षी बंदर्श ।

भाषा

 इसके बाद अपने प्रेमियो के प्यारे उस राजा ने मार्ग में घोडे ही ठहराओं (पडावो) को देकर दक्षिणापथ की गङ्गा, तुङ्गभद्रा नदी का दर्शन किया । तुङ्गभद्रा नरेन्द्रेण तैनामन्यत मानिना । तरङ्गहस्तैरुत्क्षिप्य क्षिपन्तीवेन्द्रमन्दिरे ॥६३॥

अन्वयः

 मानिना तेन नरेन्द्रेण तुङ्गभद्रा तरङ्गहस्तैः उत्क्षिप्य इन्द्रमन्दिरे क्षिपन्ती इव अमन्यत

व्याख्या

 मानश्चितसमुन्नतिरस्यऽस्तीति मानी तेन मानिना ‘गर्वोऽभिमानोऽहंकारो मानश्चित्तसमुन्नति'. इत्यमरः । तेन नरेन्द्रेणाऽऽहवमल्लदेवनृपेण तुङ्गभद्रा दक्षिणरपयगङ्गा तरङ्गा वीचय एव हस्ताः करास्तैस्तरङ्गरूपकरैरुत्क्षिप्यर्ध्व प्रक्षिप्येन्द्रस्य मन्दिरे स्वरों (राजानं) क्षिपन्तीव प्रापयन्तोवाऽमन्यत मेने । अत्रोत्प्रेक्षालङ्कर । तुङ्गभद्रायां तरङ्गारभिस्तैर्जनानां स्वर्गलोकप्रापणस्य क्रियाया उत्प्रेक्षणात् ।

भाषा

 उस उन्नत चित राजा ने, तुङ्गभद्रा नदी, अपने तरङ्गरूपी हाथों से भानो उसे स्वर्ग में इन्द्र के मन्दिर में उछाल रही हो, ऐसा समझा ।

उद्दण्डा तेन डिएडी-पिण्डपङ्क्तिरदृश्यत ।
विमानहंसमालेव प्रहिता पद्मसद्मना ॥६४॥

अन्वयः

 तेन उदएडा डिएडीरपिण्डपडिफः पद्मसद्मना प्रहिता विमानहंसमाता इस अदृश्यत ।