पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/२६४

एतत् पृष्ठम् परिष्कृतम् अस्ति

( २४६ )

तत्रावतीर्य धौरेयो धीराणां धरणीपतिः ।
स्नात्वा चण्डीशचरण द्वन्द्वचिन्तापरोऽभवत् ॥६६॥

अन्वय:


 धीराणां धौरेयः धरणीपतिः तत्र अवतीर्य स्नात्वा चण्डीशचरणद्वन्द्व चिन्तापरः अभवत् ।

व्याख्या

 घीराणां धैर्यवतां धौरेयो धुरीणः ‘धूर्वहे धुर्य धौरेयधुरीणास्सधुरन्धराः' इत्यमरः । धरण्या घरायाः 'धरा धरित्री धरणी' इत्यमरः । पतिः स्वामी भूपतिराहवमल्लदेवस्तत्र तुङ्गभद्रानद्यामवतीर्यं प्रविश्य स्नात्वा स्नान विधाय चण्डयाः पार्वत्या ईशः पतिश्चण्डीशस्तस्य विस्य चरणद्वन्द्वस्य पादयुगलस्य चिन्ता ध्यानं तत्र परो लग्नः शिवचरणयुगलध्यानतत्परोऽभवत् ।

भाषा

 धीरो का अग्रणी बह आहवमल्लदेव राजा तुङ्गभद्रा नदी में उतर कर ओर स्नान कर शंकर भगवान् के चरण युगल से ध्यान में तत्पर हो गया ।

अदत्त चापरिच्छिनमखिन्नः काञ्चनोत्करम्
न कृच्छ्रेऽपि महाभागास्त्यागव्रतपराङ्मुखाः ।।६७॥

अन्वय:

 अखिन्नः (सः) अपरिच्छिन्नं काञ्चनोत्करं अदत्त च । महाभागाः कृच्छे अपि त्यागव्रतपराङ्मुखाः न (भवन्ति) ।

व्याख्या

 अखिन्नः प्रसन्नमानसः स अपरिछिन्नमनितं काञ्चनस्य सुवर्णस्योत्करं समूहं अदत्त च दानपात्रेभ्यः समर्पितयांश्च । महाभागा महाभाग्यवन्तो जनाः कृछ्रेऽपि कष्टे समापतितेऽपि त्यागव्रताद्दानातुष्ठानात्पराङमुखा विमुखा न भवन्ति । अत्रार्थान्तरन्यासो नामालङ्कारः । "सामान्यं वा विशेषो या यदन्येन समर्थ्यते । यत्तु सोऽर्थान्तरन्यासस्साधर्म्येणेतरेण वा ।