पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/२७०

एतत् पृष्ठम् परिष्कृतम् अस्ति

( २५२ ) ।

व्याख्या

 धात्रा विरञ्चिना ‘धाताब्जयोनिर्द्रुहिणो विरञ्चि कसलासन' इत्यमर । सुवर्णस्यस्तम्भ सुवर्णस्तम्भ काञ्चनस्तम्भस्तस्य विभ्रमो विलासो भ्रान्तिर्या यस्मिन् स काञ्चनस्तम्भसदृश आहमल्लस्याऽऽहवमल्लदेवनृपस्य बाहुर्भुज पुरन्दरस्य पुरुहूतस्य ‘यृद्ध श्रवाशुनासीर पुरुहूत पुरन्दर’ इत्यमर । धुरा राज्यकार्यभार स्वर्गराज्यकार्यभारमित्यर्थं । घर्तुं वोढ़ु व्यवहित कृतोऽस्मा दभूलोकान्महददूरे स्थापित । नृपस्य पुण्यातिशयेन देवत्वप्राप्त्या पुरन्दरस्य राज्यकार्यं साहाय्यप्रदानार्थं ब्रह्मणा स व्यवहित इति भाव । काव्यलिङ्गालङ्कार ।

भाषा

 ब्रह्माने, सोने के खम्भ को शोभा वाले राजा आहवमल्लदेव के बाहु को स्वर्ग के राज्य कार्य में इन्द्र की सहायता करने के लिय इस पृथ्वी पर से दूर हटा दिया है । अर्थात राजा को इस पृथ्वी पर से स्वर्ग में हटा दिया है ।

निजासु राजधानीषु स्थितिं दधतु पार्थिवाः।
तादृशः पुनरुत्साहो वीरसिंहासने कुतः


अन्वय:

पार्थिवाः  निजासु राजधानीषु स्थिति दधतु । कुतः पुन: वीरसिंहासने तादृशः उत्साह:।
 

व्याख्या

 पृथिव्या ईश्वरा पार्थिवा नृपा निजासु स्वीयासु राजधानीषु प्रधाननगरेषु स्थिति सुखेन निवास दधतु कुर्वन्तु । कुत कस्माद्धेतो पुन भूयो वीराणा सिहासन सग्रामभूमिस्तस्मिन् तादृश पूर्वानुभूत उत्साहश्चित्तस्योन्नति । सम्प्रति नृपस्याऽऽहवमल्लदेवस्य युद्धप्रियस्याऽभावात्सर्वे राजानो युद्धभयं त्यक्त्वा सुखेन निवसन्त्विति भाव ।

भाषा

 राजा लोग अब सुख से अपनी अपनी राजधानियो में रहें । आहवमल्लदेव राज के न रहने से अब युद्ध भूमिषो में वैसा उत्साह कहाँ । अर्थात् युद्धप्रिय राजा आहवमल्लदेव के न रहने से युद्ध का भय छोडवर सब राजा निश्चिन्त हो कर अपनी अपनी राजधानी में सुख से रहें ।