पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/२७७

एतत् पृष्ठम् परिष्कृतम् अस्ति

(२६०)

व्याख्या

  अय किञ्चित्स्यास्यप्राप्त्यनन्तरं स विक्रमाङ्कदेवः संस्थितस्य मृतस्य 'परासुप्राप्तपंचत्वपरेतप्रेतसंस्यिताः' इत्यमर । पितुर्जनकस्य क्रिया तर्पणादि कबिधि शास्त्रविधानमनतिक्रम्य मर्तत इति । यथाविधि शास्त्रमर्यादानुकूलं विधाय कृत्वाऽग्रजस्य ज्येष्ठभ्रातुरवलोकने दर्शने उत्कण्ठयोत्कटेच्छया प्रेरितो नियोजितस्सन् पुरोऽग्रे कल्याणपुरमार्गेऽचलत् प्रतस्थे ।

भाषा

  कुछ स्वस्थ होने के अनन्तर, अपने मृत पिता की शास्त्रानुसार तर्पणादि क्रियाकर्म कर वह विक्रमाङ्कदेव, अपने बड़े भाई सोमदेव से मिलने की उत्कण्ठा से प्रेरित होकर कल्याणपुर के मार्ग पर आगे बढा ।


कियद्भिरपि सोऽध्वानमुल्लङ्घ्य दिवसैस्ततः ।
निःशब्दसैन्यसंघातसहितः प्राविशत्पुरीम् ।८६।।

अन्वयः

    ततः निःशब्दसैन्यसंघातसहितः सः कियद्भिः अपि दिवसैः अध्वानम् सल्लङ्घ्य पुरीं प्राविशत् ।

व्याख्या

  ततः कल्याणनगरं प्रति प्रस्थानानन्तरं नि.शब्दाः (दु खेन) स्वतमकुर्वाणाः सैन्याः सैनिकास्तेषा सघातस्समूहस्तेन सहितो युक्तः स विक्रमाङ्कदेवः कियद्भिरपि कतिपयैरेव दिवसैदिनैरध्वानं पन्थानमुल्लङ्घ्य समतिक्रम्य पुरीं कल्याणनगर प्राविशत् प्रविष्टः ।

भाषा

  इसके अनन्तर शब्द रहित अर्थात् बाजे गाजे से रहृित, सेना समूह के सहित कुछ ही दिनो में रास्ता पार कर वह कल्याणपुर में प्रविष्ट हुआ ।


सरोजिनीव हंसेन नयेनेव नरेन्द्रता । ' ,
कविना सुखगोष्ठीव चन्द्रेणेव विभावरी ॥६०॥