पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/२७८

एतत् पृष्ठम् परिष्कृतम् अस्ति

(२६१)


लक्ष्मीरिव प्रदानेन 'कवित्वेनेव वाग्मिता ।
मेने तेनापवित्रेव पित्रा विरहिता पुरी ॥६१॥

अन्वयः

  तेन पित्रा विरहिता पुरी, हंसेन विरहिता सरोजिनी इव, नयेन विरहिता नरेन्द्रता इव, कविना विरहिता सुखगोष्ठी इव, चन्द्रेण विरहिता विभावरी इव, प्रदानेन विरहिता लक्ष्मीः इव, कवित्वेन विरहिता वाग्मिता इव अपवित्रा मेने ।

व्याख्या

  तेन विक्रमाङ्कदेवेन पित्राऽऽहवमल्लदेवेन विरहिता वियुक्ता पुरी कल्याणपुरी हंसेन मरालेन विरहिता शून्या सरोजिनीव कमलिनीव, नयेन नीत्या विरहिता विहीन नरेन्द्रतेव राजत्वमिव राजकर्मेवेत्यर्थः । कविना सहृदयेन पण्डितेन विरहिता रिक्ता सुखस्याऽऽनन्दस्य रसस्य लक्षणया तदनुभवस्य तदनुभवकर्तृगोष्ठीव सभेव, चन्द्रेणेन्दुना विरहित हीना विभावरीव रात्रिरिव कवित्वेन कविकर्म- णाऽलौकिकचमत्काराधायककाव्येनेत्यर्थः । विरहिता विना याग्मितेव याक्प्रावी ण्यमिवाऽपवित्राऽमेध्याऽरमणीयेत्यर्थः । मेने युद्धा। मालोपमा --विनोक्त्य लङ्कारयोः संकरः ।

भाषा

  उसने पिता से रहित उस कल्याणपुर को, हस से रहित कमलिनी, नीति से रहित राज्यकार्य, कवि से रहित रस भरी बातो से रसास्वाद देने वाली सभा, चन्द्रमा से रहित रात, दान से रहित सम्पत्ति और उत्तम काव्य रचना से रहित वाक्पटुता के समान,अपवित्र अर्थात् अरमणीय समझा ।   युगलफम्-युग्मकम् ।


अग्रे समागतेनाथ मानितः सोऽग्रजन्मना ।
सह तेनैव सक्लेशं विवेश नृपमन्दिरम् ॥१२॥

अन्वयः

  अथ अग्रे समागतेन अग्रजन्मना मानितः सः तेन एव सह नृपमन्दिरं विवेश ।