पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/२८१

एतत् पृष्ठम् परिष्कृतम् अस्ति

(२६४)


अन्वयः

  सः दिग्वलयम् आलोड्य उपार्जितं वस्तुजातं तस्मै समर्पयामास। यशस्विनां लोभः न अस्ति ।

व्याख्या

  स विक्रमाङ्कदेवो दिग्वलयं विडमण्डलमालोड्य प्रमथ्योपार्जितं संगृहीतं वस्तु जातं सकलं वस्तु तस्मै सोमदेवाय समर्पयामास ददौ । यशस्विनां कीर्तिमतां लोभस्सम्पत्तिलोभो नास्ति न भवति । अत्राऽर्थान्तरन्यासालङ्कारः ।

भाषा

  विक्रमाङ्कदेव ने दिग्विजय कर लाई हुई सब चीजे अपने बड़े भाई सोमदेव को दे दी । यशस्वी लोगो में लोभ नहीं होता ।


जातः पापरतः कैश्चिद्दिनैः सोमेश्वरस्ततः ।
एषा भगवती केन भज्यते भवितव्यता ॥१७

अन्वयः

  ततः कैश्चित् दिनैः सोमेश्वरः पापरतः जातः । एषा भगवती भवितव्यता केन भज्यते ।।

व्याख्या

  ततो विक्रमाङ्कदेवदत्तविभूतिग्रहणानन्तरं कैश्चिद्दिनैः कियद्भिदिवसै. कस्मि श्चित्काले गते सतीत्यर्थ । सोमेश्वरः सोमदेव• पापे पापयुक्तकर्मणि रत आसक्तो जातो बभूव । एषा प्रसिद्धा भगवती देवी भवितव्यता नियतिः केन पुरुषेण भज्यते विनाश्यते दूरीक्रियत इत्यर्थः ।

भाषा

  इसके बाद कुछ समय बीतने पर सोमदेव पाप करने में प्रवृत्त हो गया । भगवती भवितव्यता को कौन टाल सकता है ।


मदिरेव नरेन्द्रश्रीस्तस्याभून्मदकारणम् ।
न विवेद परिभ्रष्टं यदशेषं यशोशुकम् ॥६८॥