पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/२८६

एतत् पृष्ठम् परिष्कृतम् अस्ति

( २69 )


स जातु जातुषीं मेने मन्ये नरपतिश्रियम् ।
एतद्विलयमीत्येव क्षात्रं तेज: यदत्यजत् ॥१०४॥

अन्वय:

 सः नरपतिश्रियं जातु जातुषीं मेने (इति अहम्) मन्ये। यत् एतद्विल यभीत्या इव (सः) ज्ञानं तेजः अत्यजत् ।

व्याख्या

 स' सोमदेवो नरपते राज्ञे: धियं लक्ष्मीं नरपतिश्रिय राजलक्ष्मीं जातु कदाचित् जतुषो लाक्षाया विकारो जातुषी ता जातुषीं लाक्षामयीं मेने विज्ञातयानित्यह मन्ये कल्पयामि । यद्यस्मात्कारणादेतस्या लाक्षामयलक्ष्म्या विलपोद्रवीभूतत्व ' तस्माद्भीतिस्तया लाक्षामयलक्ष्म्या द्रवीभूतत्वातस्या विलयो माऽभूदिति भीत्येव सः सोमदेव क्षात्र क्षत्रियसम्बन्धि तेजः प्रताप-मत्यजत् तत्याज । उष्णवादिति यावत् । क्षात्रतेजोहीनस्सजात ( इति भाव: । अत्रोत्प्रेक्षालङ्कारः ।

भाषा

 मैं समझता हूं कि सोमदेव ने राजलक्ष्मी को लाख की बनी समझ लिया था । इसी कारण से क्षात्र तेज की गर्मी से कहीं वह पिघल पर नष्ट न हो इस हेतु से उसने क्षात्र तेज को ही छोड़ दिया था।

ज्ञातास्वादः स्वयं लक्ष्म्या: पिशाच्या इव चुम्बनात् ।
रुधिरं कण्ठरन्ध्रेभ्य: सर्वेपामाचकाङ्क्ष सः ॥१०५

अन्वय:

 पिशाच्याः इव लक्ष्म्याः चुम्बनात् स्वयं ज्ञातास्वादः सः सर्वेषां कण्ठरुन्ध्रेभ्य: रुधिरम् आचकाङ्क्ष ।

व्याख्या

 पिशाच्या 'राक्षस्या इव लक्ष्म्याः श्रियश्चुम्बनात् मुखचुम्बनात् पिशाच्या रुधिराक्तमुप्प्रत्यातस्या" चुम्बनात् स्वयं सोमदेवो ज्ञातोऽनुभूतो रुधिरस्याऽऽक्ष्स्यादुत्व येन सोऽनुभूतरुधिरास्वाद:" स सोमदेव सर्वेषां जनानां कण्ठरन्ध्रेभ्यो