पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/२८७

एतत् पृष्ठम् परिष्कृतम् अस्ति

(२७०)

गलच्छिद्रेभ्यो रुधिरं रक्तमाचकाङ्क्ष पातुमैच्छत्। प्रजानां महकष्टप्रदोभूत्वा तासां गलरक्तमपि पातुमैच्छदिति भावः । काव्यलिङ्गमलङ्कारः ।

भाषा

 पिशाची के सदृश राजलक्ष्मी का मुख चुम्बन करने से पिशाची के मुख में लगे हुए रक्त के स्वाद का स्वयं अनुभव कर वह राजा प्रजाओ के गले घोट कर उनका खून पीने की इच्छा करने लगा । ‘अर्थात् कर आदि लगा कर प्रजाओं को अत्यधिक कष्ट देने लगा ।

उद्धूतचामरोद्दम-समीरासङ्गिनेव सः ।।
रजसा पूर्यमाणोऽभून्मार्गं द्रष्टुमनीश्वरः ।१०६।

अन्वयः

 उद्धूतचामरोद्दामसमीरासङ्गिना रजसा इव पूर्यमाणः सः मार्गं द्रष्टुम् अनीश्वरः अभूत् ।

व्याख्या

 उद्धृतं वेगेन चालितञ्चामरं तु प्रकीर्णकं ‘चामरं तु प्रकीर्णकम्' इत्यमरः ।तस्योद्दाम उत्कटः समीरः पवनस्तस्याऽऽसङ्गः सम्बन्धो स्त्यस्येति तत्तेन वैगसंचालितप्रकीर्णकजनितोत्कटपवनसम्बन्धादागतेनैव तत्सम्बन्धादागतेनैव रजसा धूल्या रजोगुणेन वा पूर्यमाणो पूरितनेयोत्यन्तं संपृक्तो वा स सोमदेवो मार्गं पन्थानं विवेकयुक्तकार्यं वा द्रष्टुमवलोकयितुं विचारयितुं वाऽनीश्वरोऽप्रभुरसमर्थ इयेत्यर्थः । अभूद् बभूव ।

भाषा

 जोर से बुलाए जाने वाले चवरो से जोर से बहने वाले वायु के सम्बन्ध से उड़ी हुई धूल (आंखो में पड़ जाने से) पक्ष में चवर बुलाये जाने के राजकीय ऐश्रवर्य से सम्बन्ध से उत्पन्न रजोगुण के कारण से वह राजा सन्मार्ग मा अबलोकन करने में असमर्थ हो गया ।

तेजोनिधीनां रत्नानां संभारं धारयन्नपि ।
बभूव दैवोपहतस्तमःस्तोमैस्तिरोहितः ॥१०७॥