पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/२९

पुटमेतत् सुपुष्टितम्

॥ श्रीः. ॥

महाकवि श्री बिल्हणविरचितं

विक्रमाङ्कदेवचरितम्


प्रथमः सर्गः ।

भुजप्रभादण्ड इवोर्ध्वगामी स पातु वः कंसरिपोः कृपाणः ।
यः पाञ्चजन्यप्रतिबिम्बभङ्ग्या धाराम्भसः फेनमिव व्यनक्ति ॥१॥

अन्वयः

 यः पाञ्चजन्यप्रतिबिम्बभङ्ग्या धाराम्भसः फेनं व्यनक्ति इव, सः ऊर्ध्वगामी भुजप्रभादण्डः इव कंसरिपोः कृपाणः वः पातु ।

व्याख्या

नृत्यन्ती मुखकमले सुकवीनां रसतरङ्गमग्नानाम् ।
वाणी हंसीव सरो रमणीयं दर्शयति विश्वम् ॥

 प्रारिप्सितस्य ग्रन्थस्य निर्विघ्नपरिसमाप्तये शिष्टाचारपरिप्राप्तं ‘आशीर्नमस्क्रिया वस्तुनिर्देशो वाऽपि तन्मुखम्’ इति मङ्गलाचरणं कर्तव्यमिति श्री बिल्हण-कविरादौ स्वेष्टदेवतां स्मरन्नाशीर्वादात्मकं मङ्गलमाचरति भुजप्रभादण्ड इति ।

 यः पाञ्चजन्यस्य विष्णोः शङ्खस्य ‘शङ्खो लक्ष्मीपतेः पाञ्चजन्यश्चक्रं सुदर्शनम्' इत्यमरः । प्रतिबिम्बस्य प्रतिच्छायाया भङ्ग्या व्याजेन धारायाः कृपाणधाराया अम्भसो जलस्य फेनं डिण्डिरं "डिण्डिरोऽब्धिकफः फेनः" इत्यमरः। व्यनक्तीव प्रकटयतीव सः प्रसिद्ध ऊर्ध्वगाम्युपरिष्टात्प्रसरणशीलो भुजप्रभादण्ड इव दण्डायमानबाहुकान्तिकलाप इव कंसरिपोः कृष्णस्य कृपाणः करवालो वो युष्मान् पातु रक्षतु । श्री कृष्ण सम्बन्धिनः कृपाणस्योर्ध्वप्रसरणशीलत्वरूप समानधर्मसम्बन्धनिमित्तकं भुजकान्तिदण्डत्वेनाऽऽहार्यसम्भावनमुत्प्रेक्षेव-पदवाच्या ।