पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/२९२

एतत् पृष्ठम् परिष्कृतम् अस्ति

( २७५ ) सपरप्रहा सपरिच्छदा श्री राज्यलक्ष्मीस्तस्य विक्रमाङ्कदेवस्य प्रणयेन प्रेम्णा श्रवणमुखा प्रणयप्रवणा प्रीतितत्परैवऽऽसीत् । परं किन्तु विक्रमाङ्को विक्रमाङ्कदेवः कलङ्किनीं सोमदेवसंसर्गात्कलुषितां तां माऽङ्गीकरोति स्म न स्वीकरोति स्म । अमात्यादयः सर्वेऽपि राज्याङ्गभूतास्तं विक्रमाङ्कदेवं राजा सने स्थापयितुमैच्छन् । परं सः सोमदेवससर्गादपवित्रं राजासनं न स्वीचकारेति भावः । यद्यपि राज्याङ्गभूत मन्त्री आदि से युक्त राज्यलक्ष्मी विक्रमाङ्कदेव के पास उसने प्रेम में तत्पर होकर आ रही थी। अर्थात् मत्री लोग सोमदेव को राज- गद्दी से उतार कर इसे राजा बनाना चाहते थे । परन्तु ; उसने उस गद्दी को । सोमदेव के ससर्ग से कलङ्कित समझ स्वीकार नहीं किया । बहुना किं प्रलापेन तथा राज्यं चकार सः । यथेन्दुमित्रे चालुक्यगोत्रे प्राप कलङ्कताम् ॥११४॥ अन्वयः बहुना प्रलापेन किम् । सः तथा राज्यं चकार यथा इन्दुमित्रे चालुक्यः गोत्रे (स) कलङ्कतां प्राप । बहुना प्रलापेनातिसंलपनेन किं किं प्रयोजन न किमपीत्यर्थः । स सोमदेव स्तया तादृशं राज्य राजकार्यं चकार कृतवान् यथा येनेन्दुमित्रे चन्द्रसदृशधवले चाक्षुषपगोत्रे चालुक्यरूपाणां वंशे सः सोमदेवः कलङ्कतां कलुषतां प्राप प्राप्तः । अनेनैव धक्षते चालुक्पयंरो कलङ्कः स्थापित इति भावः । भाषा अधिक कहने से क्या लाभ ? सोमदेव राजा ने ऐसा राज्य किया जिससे चन्द्रमा के सदृश निर्मल चालुक्य वश में यह कलङ्क हो गया । न शशाक निराकर्तुमग्रजस्य दुराग्रहम् । राज्ग्रहगृहीतानां को मन्त्रः किं च भेषजम् ।११५।।