पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/३०

पुटमेतत् सुपुष्टितम्

( २ )

कृष्णस्योन्नतकृपाणप्रतिबिम्बितपाञ्चजन्ये शुभन्वात्फेनोत्प्रेक्षा, सा च विषयस्य भङ्गिपदेनाऽपन्हवादपन्हूतविषया । अत्र भगवतः साक्षाद्वर्णनं विहाय भगवत्सम्बन्धिकृपाणस्य वर्णनात्तस्याऽपि लोकोत्तरत्वमभिव्यज्यत इति वस्तुध्वनिरपि । प्रतिनायक-कंसालम्बनक-श्रीकृष्णनिष्ठोत्साहप्रतीतेस्तस्य च कविनिष्ठकृष्णविषयकभावेऽङ्गत्वात्प्रेयोऽलङ्कारः । वीररसस्याऽङ्गत्वाद्रसालङ्कारश्च । काव्येऽस्मिन्वीररसोऽङ्गीति मङ्गलेनैव सूच्यते । सर्गेऽस्मिन्नुपजातिवृत्तम् । पूर्वार्द्धे उपेन्द्रवज्राछन्द उत्तरार्द्धे चेन्द्रवज्रा-छन्दः । 'उपेन्द्रवज्रा जतजास्ततो गौ' 'स्यादिन्द्रवज्रा यदि तौ ज गौ गः' । 'अनन्तरोदीरितलक्ष्मभाजौ पादौ यदीया युपजातयस्ताः ।'

भाषा

 पूण्य भूमि भारतवर्ष में ग्रन्थ की निर्विघ्न समाप्ति के ध्येय से ग्रन्थ के आदि में मङ्गलाचरण करने की प्रथा बहुत प्राचीन काल से चली आ रही है । इसको ध्यान में रखते हुए महाकवि श्री बिल्हण अपने ग्रन्थ के प्रारम्भ में मङ्गलाचरण करते हैं ।

 कंस के शत्रु श्री कृष्ण के भुजा की, दण्डे के ऐसी सीधी ऊपर उठने वाली कान्ति के समान शोभायमान उनकी तलवार आप लोगों का संरक्षण करे, जो धार के पानी में प्रतिबिम्बित पाञ्चजन्य शंख की श्वेत परछाही के मिप में मानो जल के फेन को प्रकट करती है।

 मङ्गलाचरण में वीररस की झलक होने से यह काव्य वीर-रस वाला है ऐसा सूचित होता है ।

श्रीधाम्नि दुग्धोदधिपुण्डरीके यश्चञ्चरीकद्युतिमातनोति ।
नीलोत्पलश्यामलदेहकान्तिः स वोऽस्तु भूत्यै भगवान्मुकुन्दः ॥ २ ॥

अन्वयः

 यः श्रीधाम्नि दुग्धोदधिपुण्डरीके चञ्चरीकद्युतिम् आतनोति सः नीलोत्पलश्यामलदेहकान्तिः भगवान् मुकुन्दः वः भूत्यै अस्तु ।

व्याख्या

 यः श्रियो लक्ष्म्याः धाम्नि निवासस्थाने ‘धामतेजो गृहेमणौ' इत्यमरः । दुग्धोदधिरेव क्षीरसागर एव पुण्डरीक' सिताम्भोजं 'पुण्डरीकं सिताम्भोजम्'