पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/३०३

एतत् पृष्ठम् परिष्कृतम् अस्ति

( २८७ ) शतपत्रे कमले ईव लोचने नेत्रे यस्य सः कमलनेत्रस्य विक्रमादित्यः श्रियो राजलक्ष्म्याः शोभया वा बिलासभूयि क्रीडात्थाने बाहुर्भुज एक पञ्जरस्तस्मिन् भुजपञ्जरे'राजहंसमिव मरालनिव शुभ्रं यशः कीर्ति लालयत् सुखपूर्वकं पालयन् सन् तत्र तत्र सर्वत्र स्थाने चित्रमाश्चर्ययुक्तमभ्युदयं समुन्नतिमाससाद प्राप्तवान् । कमल के समान नेत्र वाले उस विक्रमाङ्कदेव ने राजलक्ष्मी या शोभा की विलास भूमि अपनी भुजा रूपी पिंजड़े में हंस के समान श्वेत यश को प्रेमपूर्वक पालन करते हुए सर्वत्र आश्चर्य जनक अभ्युदय प्राप्त किया। अर्थात् अपने भुजबल से शत्रुओ को परास्त कर यश फैलाते हुए सर्वत्र आश्चर्य जनाः अभ्युदय किया । मन्युपङ्ककलुपं समुद्वहन् भ्रातृदुश्चरितचिन्तनान्मनः । सुप्रसन्नपयसा प्रसन्नतां द्रागनीयत स तुङ्गभद्रया ॥१०॥ भ्रातृदुश्चरितचिन्तनात् मन्युपङ्ककलुषं मनः समुद्वहन् सः सुप्रसन्नपयसा तुङ्गभद्रया द्राक् प्रसन्नताम् अनीयत । व्याख्या

सोमदेवस्य दुश्चरितं कुचरित्रं तस्य चिन्तनात् स्मरणात् मन्युः क्रोध एव दैन्यमेव वा 'मन्युद्धेये क्रतो क्रुधि' इत्यमरः । पङ्कः कर्दमस्तेन कलुष मलिनं मनो हृदयं समुद्वहन् धारयन् स विक्रमाङ्कदेवः सुप्रसन्नं निर्मलं पयो जलं यस्या स्तया तुङ्गभद्रया नद्या द्राग झटिति प्रसन्नतां निमंलत्वमनीपत प्राप्तः । तुङ्ग भद्रादर्शनेन तत्र स्नात्वा च प्रसन्नचितो बभूवेति भायः । अत्र रूपकालङ्कारः। अपने भाई सोमदेव के कुकर्मो का विचार करने से उत्पन्न क्रोघ या विषाद रूप कीचड से मलिन हृदय को धारण धरने वाला विक्रमाङ्कदेव निर्मल जल वाली तुङ्गभद्रा नदी को देख कर" (और उसमें स्नान कर) शीघ्र ही प्रसन्न हो गया ।