पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/३०४

एतत् पृष्ठम् परिष्कृतम् अस्ति

( २८८ ) तत्करीन्द्रनिवहावगाहनैर्वाहिनी प्रतिपथेन सागमत् । दन्तिदानजलनिम्नगाः पुनर्लेभिरे प्रणयमापगापतेः ॥११॥ सा वाहिनी तत्करीन्द्रनिवहावगाहनैः प्रतिपथेन अगमत् । दन्तिदान जलनिम्नगाः आपगापतेः प्रणयं पुनः लेभिरे । व्याख्या स प्रसिद्ध वाहिनी तुङ्गभद्रानदी ‘वाणिन्यो नर्तको दूत्यी स्रवन्त्यामपि वाहिनी' इत्यमर । तस्य विक्रमाङ्कदेवस्य करीन्द्रा गजेन्द्रास्तेषानिवहा समूह स्तेषामवगाहनानि स्नानानि तैस्तत्करीन्द्रनिवहावगाहनं प्रतिपथेन विपरीत- मार्गेणऽगमत प्रवहति स्म । दन्तिना करिणा दानजलस्य मदजलस्य निम्नगा नद्य आपगाना नदीना ‘स्रवन्ती निम्नगापगा इत्यमर । पतिस्समुद्रस्तस्य प्रणय स्नेह सगममित्यर्थं । पुनर्लेभिरे प्रापुश्च । तुङ्गभद्रया प्रतिकूलगमनेन मदजलनदीनाञ्च समुद्रसगमेन गजेन्द्राणामत्याधिक्य सूचितम् । अत्र लिङ्गसाम्या न्नायकनायिकाव्यवहारप्रतीते समासोक्तिरलङ्कार । तुङ्गभद्राया रुष्टनयिका- व्यवहारश्च प्रतीयते । वह तुङ्गभद्रा नदी विक्रमादेव के असख्य बडे २ हाथियो के एक साथ उसमें उतर कर स्नान करन से उलटी बहने लगी और हाथियो के मदजल की नदियाँ समुद्र में जा मिली । वारणः प्रतिगजं विलोकयंस्तद्विमर्दरसमांसलस्पृहः । आददे न विशदं नदीजलं शीलमीदृशममर्षशालिनाम् ॥१२॥ प्रतिगज विलोकयन् तद्विमर्देरसमासलस्पृहः वारणः विशदं नदीजलं न आददे । अमर्षाशालिनाम् ईदृशं शीलम् । प्रतिगज प्रतिमल्लहस्तिन विलोकयन सपश्यन् तस्य प्रतिगजस्य विमर्देन सम्मर्देन शरीरसघट्टनेन या यो रसो जलमातदो वा तस्मिन्मांसला बलवती