पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/३०९

एतत् पृष्ठम् परिष्कृतम् अस्ति

( २९४ )


व्याख्या


 यत्र वनवासमण्डले केलेः क्रीडायाः काननं वनं ‘अटय्यरण्यं विपिनं गहनं काननं वनम्' इत्यमरः । तस्मिन् ये शकुन्ताः पक्षिणस्तेषु कूजितैश्शब्दैश्च्छाद्य मानोऽभिभूयमानो गलकन्दलस्य गलनलिकायः स्वनश्शब्दौ यासां ता एणलोचना मृगनयनाः, पक्षिकलफलस्पोत्कटतया मृगलोचनाशब्दोऽभिभूतो माधुर्यतिक्श यादिति भावः । विदग्धताया वोदग्धस्य गुणं समुत्कर्षे दर्शयितुं प्रकाशयितुं न प्राप्नुवन्ति न शक्नुवन्ति । पक्षिणां कलकलाघिक्यावङ्गनानां कोमलशब्दा दुःश्रवा इति भावः । पक्षिणामाधिक्यात्तत्रस्थफलसम्पतिर्ध्वंनिता । अतिश योक्त्यलङ्कारः.

भाषा


 बागो के पक्षियो के कूजित से दबे हुए गलो के शब्द वाली मृगनयनी स्त्रियाँ अपनी दक्षता के उत्कर्षे को प्रकट करने में समर्थ न हो सकी । अर्थात् पक्षियो के जोर से होने वाले कलरव से उनकी कोमल व मधुर ध्वनि सुनाई नही पड़ सकती थी ।}}


{{bold|<poem>यत्र तिष्ठति विरोधमुद्वहन् दाहतः प्रभृति तेजसा सह । मेचकक्रमुककाननावलीमीलितोष्णकिरणार्चिंषि स्मरः ॥२०॥{{bold|<poem>


अन्वयः


 मेचकक्रमुककाननावलीमीलितोष्णकिरणार्चिषि यन्न स्मरः दाहतः । प्रभृति तेजसा सह विरोधम् उद्वहन् तिष्ठति ।


व्याख्या

 मोचकानां कृष्णवर्णानां क्रमुकाणां पूगवृक्षाणां काननानि वनानि तेषामावली पंक्तिस्तया मीलितान्यवरूद्धान्मुष्णकिरणस्य सूर्यस्याऽर्चीषि मयूखा यस्मिन्तस्मिन् मेचकक्रमुककाननावलीमीलितोष्णकिरणचिषि यत्र वनवासमण्डले स्मरः कामदेवो दाहतश्शिवतृतीयनेत्राग्निभस्मीकरणातिप्रभूति तेजसा येन केनाऽपि तेजस्सा मान्येन सह विरोधं विद्वेषमुद्वहन् धारयन् तिष्ठति निवासं करोति । शिवने त्राग्निविरोधेन तेजस्सामान्येन द्वेषात्सूर्यतेजसोऽप्यत्रऽनागमनादत्र वने स्मरः स्थितिमपलम्बते इति भावः । स्मरे तेजसा विरोघरूपस्य धर्मस्योत्प्रेक्षणादुत्प्रेक्षा लङ्कारो गम्यते, तेन च काननानां क्रीडायोग्यत्वं ध्वन्यत इति वस्तुध्वनिः।